SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ [सू० १७] सप्तदशस्थानकम् । अणुवेलंधरवासा लवणे विदिसासु संठिआ चउरो । कक्कोडे १ विजुप्पभे २ केलास ३ ऽरुणप्पभे ४ चेव ॥ कक्कोडय कद्दमए केलासऽरुणप्पभेऽत्थ रायाणो । बायालीस सहस्से गंतुं उयहिम्मि सव्वे वि ॥ चत्तारि जोयणसए तीसे कोसं च उवगया भूमिं । सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥ [बृहत्क्षेत्र० ४१५-४२२] त्ति । चारणाणं ति जङ्घाचारणानां विद्याचारणानां च तिरियं ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्रागमनायोत्पतति, स चेतोऽसङ्ख्याततमेऽरुणोदसमुद्रे दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वतस्त्वरुणोदसमुद्र एव उत्तरत एवमेव भवतीति। आवीइमरणे 10 त्ति आ समन्ताद्वीचय इव वीचयः आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्तदावीचि, अथवा वीचिः विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्, तदेवंभूतं मरणमावीचिमरणं प्रतिक्षणमायुर्द्रव्यविचटनलक्षणम्, तथाऽवधिः मर्यादा, तेन मरणमवधिमरणम्, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया 15 पुनस्तद्ग्रहणावधिं यावज्जीवस्य मृतत्वादिति, तथा आयंतियमरणे त्ति आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद् द्रव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, वलायमरणे त्ति संयमयोगेभ्यो वलतां भग्नव्रतपरिणतीनां व्रतिनां मरणं वलन्मरणम्, तथा वशेन इन्द्रियविषयपारतन्त्र्येण ऋता बाधिता वशार्ताः स्निग्धदीपकलिकावलोकनाकुलशलभ- 20 वत्, तथाऽन्त: मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तःशल्यो लज्जा-ऽभिमानादिभिरनालोचितातिचारस्तस्य मरणम् अन्तःशल्यमरणम्, तथा यस्मिन् भवे तिर्यग्-मनुष्यभवलक्षणे वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनः तत्क्षयेण म्रियमाणस्य यद्भवति तत् तद्भवमरणम्, एतच्च तिर्यग्मनुष्याणामेव न देव-नारकाणाम्, १. हे२ मध्ये बृहत्क्षेत्रसमासे चायं पाठः । उगया भूमी जे२ । उगया भूमी हे२ जे२ विना ॥ २. आवीमरणे जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy