SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तेषां तेष्वेवोत्पादाभावादिति, तथा बाला इव बालाः अविरतास्तेषां मरणं बालमरणम्, तथा पण्डिताः सर्वविरतास्तेषां मरणं पण्डितमरणम्, बालपण्डिताः देशविरतास्तेषां मरणं बालपण्डितमरणम्, तथा छद्मस्थमरणम् अकेवलिमरणम्, केवलिमरणं तु प्रतीतम्, वेहासमरणं ति विहायसि व्योम्नि भवं वैहायसम्, विहायोभवत्वं च तस्य 5 वृक्षशाखाद्युद्बद्धत्वे सति भावात्, तथा गृधैः पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम्, अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च यत्र तद् गृध्रपृष्ठम्, इदं च करि-करभादिशरीरमध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवतीति, तथा भक्तस्य भोजनस्य यावज्जीवं प्रत्याख्यानं यस्मिंस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं 10 सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्ग्यते प्रतिनियतदेश एव चेष्ट्यतेऽस्याम नशनक्रियायामितीङ्गिनी, तया मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रत्याख्यातुनिष्प्रतिकर्मशरीरस्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम् अवस्थानं यस्मिन् तत् पादपोपगमनम्, तदेव मरणमिति विग्रहः, इदं च यथा पादपः क्वचित् कथञ्चिद् निपतितः सममसममिति चाऽविभावयन्निश्चलमेवाऽऽस्ते तथा यो वर्तते तस्य 15 भवतीति । तथा सूक्ष्मसंपरायः उपशमकः क्षपको वा सूक्ष्मलोभकषायकिट्टिकावेदको भगवान् पूज्यत्वात् सूक्ष्मसंपरायभावे वर्तमानः तत्रैव गुणस्थानकेऽवस्थितः नातीतानागतसूक्ष्मसंपरायपरिणाम इत्यर्थः सप्तदश कर्मप्रकृतीर्निबध्नाति विंशत्युत्तरे बन्धप्रकृतिशतेऽन्या न बध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासां 20 व्यवच्छिन्नत्वात्, तथोक्तानां सप्तदशानां मध्यादेका शातप्रकृतिरुपशान्तमोहादिषु बन्धमाश्रित्यानुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह नाणं ५ तराय ५ दसगं देसण चत्तारि ४ उच्च १५ जसकित्ती १६ । एया सोलस पयडी सुहमकसायम्मि वोच्छिन्ना ॥ [कर्मस्तव० २।२३] १. सात खंसं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy