________________
[सू० १५]
पञ्चदशस्थानकम् । वज्राकारासु वा वैक्रियवालुकासु तप्तासु चन(ण?)कानिव तान् पचति स वालुक इति १२, वेयरणी ति य त्ति वैतरणीति च परमाधार्मिकः, स च पूय-रुधिर-त्रपुताम्रादिभिरतितापात् कलकलायमानैर्भतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थां नदी विकुळ तत्तारणेन कदर्थयति नारकानिति १३, खरस्सरे त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरं स्वरं कुर्वन्तं कुर्वन् वा कर्षति स 5 खरस्वर इति १४, महाघोसे त्ति यो भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोष इति १५, एमए पन्नरसाहिय त्ति एवमित्यम्बादिक्रमेणैते परमाधार्मिकाः पञ्चदशाख्याताः कथिता जिनैरिति ।।
धुवराहू णमित्यादि, द्विविधो राहुः भवति ध्रुवराहुः पर्वराहुश्च, तत्र यः पर्वणि पौर्णमास्याममावास्यायां वा चन्द्रा-ऽऽदित्ययोरुपरागं करोति स पर्वराहुः, यस्तु चन्द्रस्य 10 सदैव सन्निहितः सञ्चरति स ध्रुवराहुः, आह चकिण्हं राहुविमाणं निच्चं चंदेण होइ अविरहिअं। चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ॥ [बृहत्सं० ११६] त्ति ।
ततोऽसौ ध्रुवराहुः णमित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य पाडिवयं ति प्रतिपदं प्रथमतिथिमादौ कृत्वेति वाक्यशेष: पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विर्वचनादि 15 यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह- तद्यथेत्यादि, पढमाए त्ति प्रथमायां तिथ्यां प्रथमं भागं पञ्चदशांशलक्षणं 'चन्द्रलेश्याया आवृत्य तिष्ठती'ति प्रक्रमः, अनेन क्रमेण यावत् १. वाटेषु जे२ ॥ २. एए जेसं२ ॥ ३. “इह द्विविधो राहुस्तद्यथा- पर्वराहुर्नित्यराहुश्च । तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात् समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति । अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धिः । स च पर्वराहुर्जघन्यत उत्कर्षतो वा यावता कालेन चन्द्रसूर्याणामुपरागं करोति तदेतत् क्षेत्रसमास[३९५ तमगाथा] टीकायामभिहितमिति नेह भूयोऽभिधीयते । यस्तु नित्यराहुस्तस्य विमानं कृष्णम्, तच्च तथाजगत्स्वाभाव्याच्चन्द्रेण सह नित्यं सर्वकालमविरहितं तथा चतुरङ्गुलेन चतुर्भिरङ्गुलैप्राप्तं सच्चन्द्रस्य चन्द्रविमानस्याधस्ताच्चरति, तच्च कृष्णपक्षे प्रतिपद आरभ्य प्रतिदिवसमेकैकां कलामात्मीयेन पञ्चदशेन भागेनोपरितनभागादारभ्यावृणोति । शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकां कलां प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, यावता पुनः स्वरूपेणावस्थितमेव चन्द्रमण्डलमिति ॥११६॥" - इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org