SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ५८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सागरोवमाइं ठिती पण्णत्ता ६। ४] ते णं देवा पण्णरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १॥ तेसि णं देवाणं पण्णरसहिं वाससहस्सेहिं आहारट्टे समुप्पजति २॥ 5 अत्थेगतिया भवसिद्धिया जीवा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति ३॥ [टी०] अथ पञ्चदशस्थानके सुगमेऽपि किञ्चिल्लिख्यते, इह स्थितेरर्वाक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्टपरिणामत्वात् परमाधार्मिकाः असुरविशेषाः, ये तिसृषु पृथिवीषु नारकान् कदर्थयन्तीति, तत्र अंबेत्यादि श्लोकद्वयम्, एते च व्यापारभेदेन 10 पञ्चदश भवन्ति, तत्र अंबे त्ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्ब इत्यभिधीयते १, अंबरिसी चेव त्ति यस्तु नारकान् निहत्य कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, सामे त्ति यस्तु रज्जु-हस्तप्रहारादिना शातन-पातनादि करोति वर्णतश्च श्यामः स श्याम इति ३, सबले त्ति यावरे त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, 15 स चान्त्र-वसा-हृदय-कालेज्जकादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४, रुद्दोवरुद्दे त्ति यः शक्ति-कुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, काले त्ति यः कण्ड्वादिषु पचति वर्णतः कालश्च स कालः ७, महाकाले त्ति यावरे त्ति महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल 20 इति ८, असिपत्ते त्ति असिः खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तत्समाश्रित्य नारकानसिपत्रपातनेन तिलशश्छि नत्ति सोऽसिपत्रः ९, धणु त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिबाणैः कर्णादीनां छेदन-भेदनादि करोति स धनुरिति १०, कुंभे त्ति यः कुम्भादिषु तान् पचति स कुम्भः ११, वालु त्ति यः कदम्बपुष्पाकारासु १. निहतान् क जे१ हे२ । निहितान् क हे१ । निहतान्व क जे२ ।। २. कर्त्तयित्वा जे२ ॥ ३. °म्बऋषी' खं० जे१ । 'म्बरीषी जे२ हे१ ॥ ४. कालेयका खंसं० ॥ ५. 'श्रितान्नारका खं० जे१ विना ॥ x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy