________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पन्नरसेसु त्ति पञ्चदशसु दिनेषु पञ्चदशं भागमावृत्य तिष्ठति, तं चेव त्ति तमेव पञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् उपदर्शयन् पञ्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चायं
भावार्थ:- षोडशभागीकृतस्य चन्द्रस्य षोडशो भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् 5 राहुः प्रतितिथि एकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तं चज्योतिष्करण्डके- सोलस भागे काऊण उडुवई हायएत्थ पन्नरसं ।
तत्तियमेत्ते भागे पुणो विपरिवहुई जोण्हं । ज्योतिष्क० १११] ति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात् कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च 10 लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं
तत् प्रायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति । ___ तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषां तानि
पञ्चदशमुहूर्त्तसंयोगानि, तद्यथा15 सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य ।
एए छन्नक्खत्ता पन्नरसमुहुत्तसंजुत्ता ॥ [जम्बू० ७।१६०], संयुक्तं संयोग इति ।
१. पंचदशं पंचदशभागमावृत्य खं० विना ॥ २. “सोलसभागे काऊण उडुवई हायतेऽत्थ पनरस । तत्तियमेत्ते भागे पुणो वि परिवड्डई जुण्हे ॥१०३॥ कियत्संख्याकास्तास्तिथयः ?, इति तत्संख्यानिरूपणार्थमुपपत्तिमाह- इह यावता कालेनैकश्चन्द्रमण्डलस्य षोडशो भागो द्वाषष्टिभागसत्कचतुर्भागात्मकः परिहीयते वर्द्धते वा तावत्कालक्रमेण शुक्लपक्षे परिवर्द्धयति तावत्यः तावत्प्रमाणाः शुक्लपक्षे कृष्णपक्षे च तिथयो भवन्ति । तत्र पञ्चदश भागान् कृष्णपक्षे हापयति पञ्चदशैव च भागान् शुक्लपक्षे परिवर्द्धयति, ततः पञ्चदश कृष्णपक्षे तिथयः पञ्चदश शुक्लपक्षे ॥१०३॥" - इति श्रीमलयगिरिसूरिविरचितायां ज्योतिष्करण्डकवृत्तौ । पुनरपि समवायाङ्गवृत्तौ पृ० १५२ मध्ये उद्धृतेयं गाथा। अत्रेदमवधेयम्- श्रीमहावीरजैनविद्यालयेन विक्रमसं० २०४५ [ईसवीये १९८९] वर्षे प्रकाशिते ज्योतिष्करण्डके 'परिवडते जोण्हें' इति पाठो मुद्रितः, किन्तु तत्रैव ‘परिवहई जुन्हा' इति ‘परिवहए जोण्हं' इति च पाठद्वयमपि पाठान्तररूपेण पादटिप्पने उपन्यस्तम् ॥ ३. जोण्हत्ति जे२ हे२ ॥ ४. दशैर्दिनैः खंसं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org