________________
[सू० १४]
चतुर्दशस्थानकम् । सारं सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति । तथा चोद्दस वत्थूणि त्ति द्वितीयपूर्वस्य वस्तूनि विभागविशेषाः, तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनि तु द्वादशेति, तथा साहस्सिओ त्ति सहस्राण्येव साहय्यः ।
तथा कम्मविसोहीत्यादि, कर्मविशोधिमार्गणां प्रतीत्य ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि जीवभेदाः प्रज्ञप्ताः, तद्यथा- मिथ्या विपरीता 5 दृष्टिर्यस्यासौ मिथ्यादृष्टिः उदितमिथ्यात्वमोहनीयविशेषः, तथा सासायणसम्मदिट्टि त्ति सह ईषत्तत्त्वश्रद्धानरसाऽऽस्वादेन वर्त्तते इति सास्वादनः, घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः तदुत्तरकालं षडावलिकः, तथा चोक्तम्
उवसमसंमत्ताओ चयओ मिच्छं अपावमाणस्स ।
सासायणसंमत्तं तदंतरालम्मि छावलियं ॥ [विशेषाव० भा० ५३१] ति, सास्वादनश्चासौ 10 सम्यग्दृष्टिश्चेति विग्रहः, सम्मामिच्छदिट्टि त्ति सम्यक् च मिथ्या च दृष्टिरस्येति सम्यग्मिथ्यादृष्टिः उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यग्दृष्टिर्देशविरतिरहितः, विरताविरतो देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः किञ्चित्प्रमादवान् सर्वत्र विरतः, अप्रमत्तसंयत: सर्वप्रमादरहितः स एव, नियहि त्ति इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते, तत्र 15 निवृत्तिः तद् गुणस्थानकं समकालं प्रतिपन्नानां जीवानामध्यवसायभेदः, तत्प्रधानो बादरो बादरसम्परायो निवृत्तिबादरः, अणियट्टिबायरे त्ति अनिवृत्तिबादरः, स च कषायाष्टकक्षपणारम्भान्नपुंसकवेदोपशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद् भवतीति, सुहुमसंपराए त्ति सूक्ष्मः सज्वलनलोभासङ्ख्येयखण्डरूपः सम्परायः कषायो यस्य स सूक्ष्मसंपरायः, लोभाणुवेदक इत्यर्थः, अयं च द्विविध इत्याह- 20 उपशमको वा उपशमश्रेणीप्रतिपन्नः क्षपको वा क्षपकश्रेणीप्रतिपन्न इति दशमं जीवस्थानमिति, तथा उपशान्तः सर्वथानुदयावस्थो मोहो मोहनीयं कर्म यस्य स १. का: जे२ ।। २. “इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायाम्, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनन्तानुबन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयम्, उत्कृष्टतस्तु षडावलिकाः सास्वादनसम्यक्त्वं पूर्वोक्तशब्दार्थं भवतीति ॥५३१॥" - इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां टीकायाम् ॥ ३. सर्ववरितः हे२ ॥ ४. नियहि त्ति नास्ति खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org