________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे उपशान्तमोहः, उपशमवीतराग इत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तं भवति, ततः प्रच्यवत एवेति, तथा क्षीणो निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थः, अयमप्यन्तर्मुहर्तमेवेति, तथा सयोगी केवली मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली निरुद्धमनःप्रभृतियोगः शैलेशीगतो 5 ह्रस्वपञ्चाक्षरोद्गिरणमात्रं कालं यावदिति चतुर्दशं जीवस्थानमिति ।
भरहेत्यादि, भारतैरवत्यौ जीवे, इह भरतमैरवतं चारोपितगुणकोदण्डाकारमतस्तयोर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरा प्रदेशश्रेणी जीवा ऐरवतस्य च शिखरिण: परतोऽनन्तरप्रदेशश्रेणीति । ___ चातुरंतचक्कवट्टिस्स त्ति चत्वारोऽन्ता विभागा यस्यां सा चतुरन्ता भूमिः, तत्र भवः 10 वामितयेति चातुरन्तः, स चासौ चक्रवर्ती चेति विग्रहः। रत्नानि स्वजातीयमध्ये
समुत्कर्षवन्ति वस्तूनीति, यदाह- रत्नं निगद्यते तजातौ जातौ यदुत्कृष्टम् [ ] इति । __ गाहावइ त्ति गृहपतिः कोष्ठागारिकः, पुरोहिय त्ति पुरोहितः शान्तिकर्मादिकारी, वड्डइ त्ति वर्द्धकिः रथादिनिर्मापयिता, मणिः पृथिवीपरिणामः, काकणी सुवर्णमयी
अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति । 15 श्रीकान्तमित्यादीन्यष्टौ विमानानीति ॥१४॥
[सू० १५] [१] पण्णरस परमाहम्मिया पण्णत्ता, तंजहाअंबे अंबरिसी चेव, सामे सबले त्ति यावरे । रुद्दोवरुद्द काले य, महाकाले त्ति यावरे ॥११॥
असिपत्ते धणु कुम्भे वालुए वेयरणी ति य । 20 खरस्सरे महाघोसे एते पण्णरसाहिया ॥१२॥ १।
णमी णं अरहा पण्णरस धणूई उटुंउच्चत्तेणं होत्था २
धुवराहू णं बहुलपक्खस्स पाडिवयं पन्नरसतिभागं पन्नरसतिभागेणं चंदस्स लेसं आवरेत्ता णं चिट्ठति, तंजहा– पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं १. 'क्षवीत खंमू०, क्षपकवी खसं० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org