SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे संतेगतिया भवसिद्धिया जीवा जे चोद्दसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३। [टी०] अथ चतुर्दशस्थानकं सुबोधं च, नवरमिहाष्टौ सूत्राण्याक् स्थितिसूत्रादिति, तत्र चतुर्दश भूतग्रामाः, भूतानि जीवाः, तेषां ग्रामाः समूहाः भूतग्रामाः, तत्र 5 सूक्ष्माः सूक्ष्मनामकर्मोदयवर्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूताः ? अपर्याप्तकाः तत्कर्मोदयादपरिपूर्णस्वकीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तकाः तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादरा बादरनामोदयात् पृथिव्यादय एव, तेऽपि पर्याप्तेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयोऽपि, नवरं पञ्चेन्द्रियाः सज्ञिनो मनःपर्याप्त्युपेताः, इतरे त्वसचिन इति । 10 तथा उप्पायपुवेत्यादि गाथात्रयम्, तत्र उप्पायपुव्वमग्गेणियं च त्ति यत्रोत्पादमाश्रित्य द्रव्य-पर्यायाणां प्ररूपणा कृता तदुत्पादपूर्वम्, यत्र तु तेषामेवाऽग्रं परिमाणमाश्रित्य तदग्रेणीयम्, तइयं च वीरियं पुव्वं ति यत्र जीवादीनां वीर्यं प्रोद्यते प्ररूप्यते तद्वीर्यप्रवादम्, अत्थीनत्थिपवायं ति यद्यथा लोके अस्ति नास्ति च तद्यत्र प्रोद्यते तदस्तिनास्तिप्रवादम्, तत्तो नाणप्पवायं च त्ति यत्र ज्ञानं मत्यादिकं स्वरूप15 भेदादिभिः प्रोद्यते तज्ज्ञानप्रवादमिति, सच्चप्पवायपुव्वं ति यत्र सत्यः संयमः सत्यवचनं वा सभेदं सप्रतिपक्षं प्रोद्यते तत् सत्यप्रवादपूर्वम्, तत्तो आयप्पवायपुव्वं च त्ति यत्रात्मा जीवोऽनेकनयैः प्रोद्यते तदात्मप्रवादमिति, कम्मप्पवायपुव्वं ति यत्र ज्ञानावरणादि कर्म प्रोद्यते तत् कर्मप्रवादमिति, पच्चक्खाणं भवे नवमं ति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत् प्रत्याख्यानमिति । विज्जाअणुप्पवायं ति यत्रानेकविधा 20 विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादम्, अवंझपाणाउ बारसं पुव्वं ति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः सफला वर्ण्यन्ते तदवन्ध्यमेकादशम्, यत्र प्राणा जीवा आयुश्चानेकधा वर्ण्यन्ते तत् प्राणायुरिति द्वादशं पूर्वम्, तत्तो किरियविसालं ति यत्र क्रियाः कायिक्यादिकाः विशाला विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालम्, पुव्वं तह बिंदुसारं च त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य १. वर्ण्यते खं० जे२ हे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy