________________
४८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायां चालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थः, विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति । 5 तथा दुवालसायते किइकम्मे त्ति द्वादशावर्त कृतिकर्म वन्दनकं प्रज्ञप्तम् । द्वादशावर्त्ततामेवास्यानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह- दुओणएत्यादि । अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम्, तत्रैकं यदा प्रथममेव ‘इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए' त्ति
अभिधायावग्रहानुज्ञापनायावनमति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति । 10 यथाजातं श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च, तत्र रजोहरणमुखवस्त्रिका-चोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गतः, एवंभूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्म वन्दनकम्, बारसावयं ति द्वादशाऽऽवर्ताः सूत्राभिधानगर्भाः कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद्
द्वादशावर्त्तम् । तथा चउसिरं ति चत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः, प्रथमप्रविष्टस्य 15 क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा
तिहि गुत्तं ति तिसृभिर्गुप्तिभिर्गुप्तम्, पाठान्तरेऽपि तिसृभिः शुद्धं गुप्तिभिरेवेति । तथा १. संभोगविषये निशीथभाष्ये पञ्चमे उद्देशके २०६९ तः २१५८ पर्यन्तासु गाथासु विस्तरेण वर्णनमस्ति ॥ २. 'सावते खं० ॥ ३. साययं जे२ हे१,२ ॥ ४. 'न्तरे तु जे२ हे१,२ । “दोणदं तु जधाजादं बारसावत्तमेव य। चदुस्सिरं तिसुद्धं च किदियम्मं पउंजदे ॥६०३॥ दोणदं०- द्वे अवनती पञ्चनमस्कारादावेकावनतिर्भूमिसंस्पर्शस्तथा चतुर्विंशतिस्तवादौ द्वितीयाऽवनतिः शरीरनमनम्, द्वे अवनती, जहाजादं- यथाजातं जातरूपसदृशं क्रोधमानमायासंगादिरहितम् । बारसावत्तमेव य द्वादशावर्ता एवं च पञ्चनमस्कारोच्चारणादौ मनोवचनकायानां संयमनानि शुभयोगवृत्तयत्रय आवर्तास्तथा पञ्चनस्कारसमाप्तौ मनोवचनकायानां शुभवृत्तयस्त्रीण्यन्यान्यावर्तनानि तथा चतुर्विंशतिस्तवादौ मनोवचनकायाः शुभवृत्तयस्त्रीण्यपराण्यावर्त्तनानि तथा चतुर्विंशतिस्तवसमाप्तौ शुभमनोवचनकायवृत्तयस्त्रीण्यावर्त्तनान्येवं द्वादशधा मनोवचनकायवृत्तयो द्वादशावर्ता भवति, अथवा चतसृषु दिक्षु चत्वारः प्रणामा एकस्मिन् भ्रमणे एवं त्रिषु भ्रमणेषु द्वादश भवन्ति, चदुस्सिरं चत्वारि शिरांसि पञ्चनमस्कारस्यादावन्ते च करमुकुलाङ्कितशिरःकरणं तथा चतुर्विंशतिस्तवस्यादावन्ते च करमुकुलाङ्कितशिरःकरणमेवं चत्वारि शिरांसि भवन्ति, त्रिशुद्धं मनोवचनकायशुद्धं क्रियाकर्म प्रयुङ्क्ते करोति । द्वे अवनती यस्मिंस्तत् व्यवनति क्रियाकर्म, द्वादशावर्ताः यस्मिंस्तत् द्वादशावतम्, मनोवचनकायशुद्ध्या चत्वारि शिरांसि यस्मिन् तत् चतुःशिरः क्रियाकर्मवं विशिष्टं यथाजातं क्रियाकर्म प्रयुञ्जीतेति ॥६०३॥" - इति मूलाचारस्य वसुनन्दिटीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org