________________
[सू० १२]
द्वादशस्थानकम् । प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपद् व्यादिभिः साधुभिर्भिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्ट्या अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृह्णन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव 5 च संविग्ना निर्वहन्ति ततस्तत् क्षेत्रं परिहरन्त्येव, अथ पार्श्वस्थादिक्षेत्रं विस्तीर्णं संविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति सचित्तादि च गृह्णन्ति प्रायश्चित्तिनोऽपि न भवन्तीति, आह च
समणुन्नमणुन्ने वा अदिंत अणाभव्व गिण्हमाणे वा । संभोग वीसुकरणं पृथक्करणमित्यर्थः इयरे य अलंभि पेल्लिंति ॥ [निशीथभा० २१२४] 10 इतरान् पार्श्वस्थादीनित्यर्थः ।
तथा सन्निसिज्जा य त्ति सन्निषद्या आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि-संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्तनां करोति शुद्धः, अथामनोज्ञ-पार्श्वस्थादि-साध्वी-गृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तम्, तथा निषद्यायामुपविष्टः 15 सूत्रार्थों पृच्छति अतीचारान् वाऽऽलोचयति यदि तदा तथैवेति ।
तथा कहाए य पबंधणे त्ति कथा वादादिका पञ्चधा तस्याः प्रबन्धनं प्रबन्धेन करणं कथाप्रबन्धनम्, तत्र सम्भोगा-ऽसम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनं स छल-जातिविरहितो भूतार्थान्वेषणपरो वादः, स एव छल-जाति-निग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा 20 दूषणमात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा १. “समणुण्णमणुण्णे वा, अदितऽणाभव्वगेण्हमाणे वा । संभोग वीसु करणं, इतरे य अलंभे पेल्लंति ॥२१२४॥ संभोतितो जो अणाभव्वं गेण्हति गहियं वा ण देति सो संभोगा तो वीसुं पृथक् क्रियते । असंभोइओ वि अणाहव्वं गेण्हति, गहियं वा ण देति, जेसिं सो संभोइओ ते तं विसंभोगं करेंति । इयरे त्ति पासत्थाती तेसिं णत्थि उग्गहो, अणुग्गहे वि पासत्थाइयाण जाति खुड्डगं खेत्तं अण्णओ य संविग्गा संथरंता पेल्लंति तत्थ सचित्ताचित्तणिप्फण्णं । अह पासत्थादियाण बित्थिण्णं खेतं, ते य ण देंति, अण्णतो य असंथरता, ताहे संविग्गा पेल्लंति, सचित्ताइयं च गेण्हता सुद्धा ॥२१२४॥" - इति निशीथ चूर्णी ॥ २. अलंभे रोल्लिंति जे२ ॥ ३-४. संनि जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org