SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ४६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पार्श्वस्थादेरेतानि कुर्वंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति । तथा दायणा य त्ति दानम्, तत्र, सम्भोगिकः सम्भोगिकाय वस्त्रादिभिः शिष्यगणोपग्रहासमर्थे सम्भोगिकेऽन्यसम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति । 5 तथा निकाये यत्ति निकाचनं छन्दनं निमन्त्रणमित्यनर्थान्तरम्, तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च सम्भोगिकः सम्भोगिकं निमन्त्रयन् शुद्धः, शेषं तथैव। तथा अब्भुट्ठाणे त्ति यावरे त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगाऽसम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं पार्श्वस्थादेः कुर्वंस्तथैवासम्भोग्यः, उपलक्षणत्वाच्चाभ्युत्थानस्य किङ्करतां च प्राघूर्णक-ग्लानाद्यवस्थायां 'किं विश्रामणादि 10 करोमि' इत्येवंप्रश्नलक्षणां तथाऽभ्यासकरणं पार्श्वस्थादिधर्माच्च्युतस्य पुनस्तत्रैव संस्थापनलक्षणम्, तथा अविभक्तिं च अपृथग्भावलक्षणां कुर्वनशुद्धोऽसम्भोग्यश्च, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति । तथा किइकम्मस्स य करणे त्ति कृतिकर्म वन्दनकं तस्य करणं विधानम्, तद् विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः, तत्र चायं विधिः - यः साधुर्वातेन 15 स्तब्धदेह उत्थानादि कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्त शिरोनमनादि यच्छक्नोति तत् करोत्येवं चाशठप्रवृत्तिर्वन्दनकविधिरिति भावः । ___ तथा वेयावच्चकरणे इ य त्ति वैयावृत्यम् आहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति । 20 तथा समोसरणं ति जिनस्नपन-रथानुयान-पटयात्रादि यत्र बहवः साधवो मिलन्ति तत् समवसरणम्, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणो वेति, अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके, तद्यथावर्षावग्रह ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति, एकैकश्चायं साधारणावग्रहः १. दायण जे२ ॥ २. नि:काये यत्ति नि:काचनं जे१ ॥ ३. संभोगिकः जेसं२ हे२ मध्ये एव वर्तते ।। ४. पार्श्वस्थत्वादिधर्माच्युतस्य जे२ । पार्श्वस्थादिधर्माच्युतस्य हे१,२ ॥ ५. संस्थानलक्षणम् खं० जे१,२ हे१ ॥ ६. सहायदानेन नास्ति खं० । ७. 'त्रादिषु यत्र हे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy