SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [सू० १२] द्वादशस्थानकम् । तपः ग्रामादेर्बहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कुटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथा अहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा च षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी रात्रिप्रमाणा, सा चाष्टमभक्तेन रात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति । तथा सम् एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः, स 5 चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र उवहीत्यादि रूपकद्वयम्, तत्रोपधिर्वस्त्रपात्रादिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृह्णन् शुद्धः, अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारात्रयं यावत् सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन वा पार्श्वस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरि 10 न सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं चएगं व दो व तिण्णि व आउटुंतस्स होइ पच्छित्तं आलोचयत इत्यर्थः । आउटुंते वि तओ परेण तिण्हं विसंभोगो ॥ निशीथभा० २०७५] त्ति । तथा सुय त्ति सम्भोगिकः सम्भोगिकस्य विसम्भोगिकस्य वोपसम्पन्नस्य श्रुतस्य 15 वाचना-प्रच्छनादिकं विधिना कुर्वन् शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुपसम्पन्नस्य वा पार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरि विसम्भोग्यः । तथा भत्त-पाणे त्ति उपधिद्वारवदवसेयम्, नवरमिह भोजनं दानं च परिकर्म-परिभोगयोः स्थाने वाच्यमिति। ___ तथा अंजलीपग्गहे इ य त्ति, इह इतिशब्दा उपदर्शनार्थाः, चकारा: 20 समुच्चयार्थाः, तत्रोपलक्षणत्वादञ्जलिप्रग्रहस्य वन्दनादिकमपीह द्रष्टव्यम्, तथाहिसम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं प्रणाममञ्जलिप्रग्रहं 'नमः क्षमाश्रमणेभ्यः' इति भणनम्, आलोचना-सूत्रार्थनिमित्तं निषद्याकरणं च कुर्वन् शुद्धः, १. उत्कुटका जे१ ॥ २. भक्तपर्यन्तरात्रौ हे२ ॥ ३. सामनसमा खमू० । समभावेन समा खसं० ॥ ४. पग्गहे इत्ति इह खं० ॥ ५. 'त्तनिष जे१.२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy