________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पञ्चेन्द्रियतिर्यग्योनिकाः, तेषां केषाञ्चिद् ये हैमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थितिः । एवं मनुष्यसूत्रमपि, नवरं गर्भे गर्भाशये व्युत्क्रान्ति: उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः ।।
वाणमन्तराणं देवाणं ति, देवानामेव न तु देवीनाम्, तासामर्द्धपल्योपमस्य 5 प्रतिपादितत्वात् । जोइसियाणं देवाणं ति चन्द्रविमानदेवानाम्, न सूर्यादिदेवानां नापि चन्द्रादिदेवीनाम्, पलियं च सयसहस्सं चंदाण वि आउयं जाण ॥ [बृहत्सं० गा० ७] इति वचनात्। सोहम्मे कप्पे देवाणं ति, इह देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया।
सोहम्मे कप्पे अत्थेगइयाणं देवाणं एगं सागरोवममिति, अत्र देवानामेव ग्रहणं 10 न देवीनाम्, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्योपमस्थितिकत्वात्, तथा एकं
सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषां सप्तमप्रस्तटे मध्यमाऽवसेया। ईसाणे कप्पे देवाणमित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति । ईसाणे कप्पे
देवाणं अत्थेगइयाणमित्यत्र देवानामेव ग्रहणं न देवीनाम्, तत्र तासामुत्कर्षतोऽपि 15 पञ्चपञ्चाशत्पल्योपमस्थितिकत्वादिति । तथा ये देवाः सागरं सागराभिधानमेवं सुसागरं
सागरकान्तं भवं मनुं मानुषोत्तरं लोकहितमिह चकारो द्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन, तासां सागरोपमस्थितेरसम्भवात्, उत्पन्ना जातास्तेषां देवानामेकं सागरोपमं
स्थितिरिति । एतानि च विमानानि सप्तमप्रस्तटेऽवसेयानि । 20 स्थित्यनुसारेण च देवानामुच्छ्वासादयो भवन्तीति तान् दर्शयन्नाह- ते णमित्यादि,
येषां देवानामेकं सागरोपमं स्थितिस्ते देवाः, णमित्यलङ्कारे, अर्द्धमासस्य ‘अन्ते' इति शेष: आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह- उच्छ्वंसन्ति निःश्वसन्ति,
१. “चन्द्राणामपि सर्वेषां प्रत्येकमुत्कृष्टमायुर्विजानीयात् एकं पल्योपमं वर्षशतसहस्रम्” इति बृहत्संग्रहणीटीकायाम्। २. °स्तेषां देवानामेव ग्रहणं न देवीनाम् । तत्र तासां सागरोपमं स्थितिरिति जे२ ।। ३. च नास्ति जे२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org