________________
[सू० १]
एकस्थानकम् । तथा इमीसे णमित्यादि सूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणां प्रतिपादनपरं सुबोधम् । नवरं जंबुद्दीवे दीवे इह सूत्रे आयामविक्खंभेणं ति क्वचित् पाठो दृश्यते, क्वचित्तु चक्कवालविक्खंभेणं ति, तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च। द्वितीयस्त्वेवं व्याख्येयः- चक्रवालविष्कम्भेण वृत्तव्यासेन, इदं च । प्रमाणयोजनमवसेयम्, यदाह
5 आयंगुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नग-पुढवि-विमाणाइं मिणसु पमाणंगुलेणं तु ॥ [बृहत्सं० गा० ३४९]
तथा पालकं यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रि यम्, यानं गमनम्, तदर्थं विमानम्, यायते वाऽनेनेति यानं तदेव विमानं यानविमानं पारियानिकमिति यदुच्यते ।
10 __ अत्थीत्यादि, अस्ति विद्यते एकेषां केषाञ्चिन्नैरयिकाणामेकं पल्योपमं स्थितिरिति कृत्वा प्रज्ञप्ता प्रवेदिता मया अन्यैश्च जिनैः, सा च चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थितिरिति ।
असुरिंदवजियाणं ति चमर-बलिवर्जितानां भोमेजाणं ति भवनवासिनाम्, भूमौ पृथिव्यां रत्नप्रभाभिधानायां भवत्वात्तेषामिति, तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत 15 उत्कृष्टा देशोने द्वे पल्योपमे सा, आह च
दाहिण दिवट्ट पलियं दो देसूणुत्तरिल्लाणं ॥ [बृहत्सं० गा० ५] ति ।।
असंखेज्जेत्यादि, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा, ते च ते सज्ञिनश्च समनस्काः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति असङ्ख्येयवर्षायुःसज्ञि१. “आत्माङ्गुलेन मिमीष्व वास्तु । तच्च त्रिविधम्, तद्यथा-खातमुच्छ्रितमुभयं च । तत्र खातं कूप-तडाग-भूमिगृहादि, उच्छ्रितं धवलगृहादि, उभयं भूमिगृहयुक्तधवलगृहादि । उत्सेधप्रमाणेनाङ्गुलेन मिमीष्व देहं सुरादीनां शरीरम् । प्रमाणाङ्गुलेन पुनर्मिमीष्व नग-पृथिवी-विमानानि। तत्र नगाः पर्वता मेर्वादयः, पृथिव्यो धर्मादयः, विमानानि सौधर्मावतंसकादीनि। विमानग्रहणं भवन-नरकावासाद्यपलक्षणम्, तेन तान्यपि प्रमाणागलेन मिमीष्व" । इति बहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम्॥ २. परि खं० ॥ ३. तदुच्यते जे२ हे२ ॥ ४. "दाहिणेत्यादि, दाक्षिणात्यानां नागकुमाराधधिपतीनां धरणप्रमुखानां नवानामिन्द्राणामुत्कृष्टमायुर्व्य) पल्योपमं सार्धं पल्योपममित्यर्थः । उत्तरिल्लाणं ति औत्तराहानामुत्तरदिग्भाविनां नागकुमारादीन्द्राणां भूतानन्दप्रभृतीनां नवानां देशोने किञ्चिदूने द्वे पल्योपमे” इति बृहत्संग्रहणीटीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org