________________
सम्बन्धसूत्रम् ।
[सू० १] रागादिजयश्चास्य रागादिस्वरूप-तजयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह- जानाति छाद्यस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, तेन । __ अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तः, अधुना स्वार्थसम्पत्तिपूर्वकं परार्थसम्पादकत्वं विशेषणषट्केनाह- तीर्ण इव तीर्णः, संसारसागरमिति गम्यते, तेन । तथा तारयति परानप्युपदेशवर्तिन इति तारकः, तेन । तथा बुद्धेन जीवादितत्त्वम्, तथा बोधकेन 5 जीवादितत्त्वमेव परेषाम् । तथा मुक्तेन बाह्याभ्यन्तरग्रन्थबन्धनात्, मोचकेन तत एव परेषाम् ।
तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव भाविजडत्वेन । तथा शिवं सर्वाबाधारहितत्वात्, अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात्, अरुजम् अविद्यमानरोगं शरीर-मनसोरभावात्, 10 अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात्, अक्षयम् अनाशं साद्यपर्यवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात्, अपुनरावर्तकम् अविद्यमानपुनर्भवावतारं तद्बीजभूतकर्माभावात्, सिद्धिगतिरिति नामधेयं यस्य तत् सिद्धिगतिनामधेयम्, तिष्ठति यस्मिन् कर्मकृतविकारविरहितत्वेन सदाऽवस्थितो भवति तत् स्थानं क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि 15 तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं सम्प्राप्तुकामेन यातुमनसा, न तु तत्प्राप्तेन, तत्प्राप्तस्याऽकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति च । यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति,
मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः [ ] इति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता इमे त्ति इदं वक्ष्यमाणतया प्रत्यक्षमासनं 20 च, द्वादशाङ्गानि यस्मिंस्तद् द्वादशाङ्गम्, गणिन: आचार्यस्य पिटकमिव पिटकं गणिपिटकम्, यथा हि वालञ्जुकवाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः, प्रज्ञप्तं तीर्थकरनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितम् । तद्यथे१. इदं च व जे२ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org