________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे त्युदाहरणोपदर्शने, आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि। तत्थ णं ति तत्र द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थः आत्मादिः अभिधेयो ‘भवतीति गम्यते, तद्यथेति वाचनान्तरद्वितीयसम्बन्धसूत्रव्याख्येति । 5 [सू०१] [३] एके आता १, एके अणाया २। एगे दंडे ३, एगे अदंडे ४।
एगा किरिया ५, एगा अकिरिया ६। एगे लोए ७, एगे अलोए ।
एगे धम्मे ९, एगे अधम्मे १०। एगे पुण्णे ११, एगे पावे १२। एगे बंधे १३, एगे मोक्खे १४।।
__ एगे आसवे १५, एगे संवरे १६। एगा वेयणा १७, एगा णिजरा १८। 10 [टी०] इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः,
तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बद्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् एगे आया इत्यादिभिरष्टादशभिः सूत्रैराह । स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि
किञ्चिदुच्यते- एक आत्मा, कथञ्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयम् । तत्र 15 प्रदेशार्थतया असङ्ख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं
पूर्वस्वभावक्षया-ऽपरस्वरूपोत्पादयोगेनाऽनन्तभेदोऽपि कालत्रयानुगामिचैतन्यमात्रापेक्षया एक आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनाऽनन्तत्वेऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपापेक्षयैकत्वमात्मन इति । तथा न आत्मा अनात्मा घटादिपदार्थः,
सोऽपि प्रदेशार्थतया सङ्ख्येया-ऽसङ्ख्येया-ऽनन्तप्रदेशोऽपि तथाविधैकपरिणामरूप20 द्रव्यार्थापेक्षया एक एव, एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोग
लक्षणैकस्वभावयुक्तत्वात् कथञ्चिद्भिन्नस्वरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्वमवसेयमिति । __ तथा एको दण्डो दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामानं वा, एकत्वं चास्य सामान्यनयादेशाद्, एवं सर्वत्रैकत्वमवसेयम् । तथैकोऽदण्डः प्रशस्तयोगत्रयमहिंसामानं वा।
१. एव नास्ति खं० जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org