________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तेन । यथा हि लोके चक्षु-र्मार्ग-शरणदानात् दुःस्थानां जीवितव्यं ददाति एवमिहापीति दर्शयन्नाह- जीवनं जीवो भावप्राणधारणममरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयः जीवेषु वा दया यस्य स जीवदयोऽतस्तेन । ... इदं चानन्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात् सम्पन्नमिति 5 धर्मात्मकतामस्य विशेषणपञ्चकेनाह-धर्मं श्रुत-चारित्रात्मकं दुर्गतिप्रपतज्जन्तुधरणस्वभावं दयते ददातीति धर्मदयः, तेन । तद्दानं चास्य तद्देशनादेवेत्यत आह-धर्मम् उक्तलक्षणं देशयति कथयतीति धर्मदेशकः, तेन । धर्मदेशकत्वं चास्य धर्मस्वामित्वे सति, न पुनर्यथा नटस्येति दर्शयन्नाह- धर्मस्य क्षायिकज्ञान-दर्शन-चारित्रात्मकस्य नायकः
स्वामी यथावत् पालनाद् धर्मनायकः, तेन । तथा धर्मस्य सारथिर्धर्मसारथिः, यथा 10 रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गानां संयमा-ऽऽत्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति तेन धर्मसारथिना । तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः पृथिव्याः पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती चेति
वरचातुरन्तचक्रवर्ती राजातिशयः, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्त15 चक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा
भगवान् धर्मविषये शेषप्रणेतृणां मध्ये सातिशयत्वात् तथोच्यत इति तेन धर्मवरचातुरन्तचक्रवर्तिना ।
एतच्च धर्मदायकत्वादिविशेषणपञ्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आहअप्रतिहते कट-कुड्य-पर्वतादिभिरस्खलिते अविसंवादके वा, अत एव क्षायिकत्वाद्वा 20 वरे प्रधाने ज्ञान-दर्शने केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, तेन ।
एवंविधसंवेदनसंपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वान्नोपकारीति निश्छद्मताप्रतिपादनायाऽस्याऽऽह, अथवा कथमस्याप्रतिहतसंवेदनत्वं सम्पन्नम्, अत्रोच्यते, आवरणाभावात्, एतदेवाह- व्यावृत्तं निवृत्तमपगतं छद्म शठत्वमावरणं
वा यस्य स तथा, तेन व्यावृत्तछद्मना । माया-ऽऽवरणयोश्चाभावोऽस्य रागादिजयाज्जात 25 इत्यत आह- जयति निराकरोति राग-द्वेषादिरूपानरातीनिति जिनः, तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org