SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सम्बन्धसूत्रम् । [सू० १] लोकोत्तमः, तेन । लोकोत्तमत्वमेवास्य पुरस्कुर्वन्नाह- लोकस्य सञ्जिभव्यलोकस्य नाथः प्रभुर्लोकनाथः, तेन । नाथत्वं चास्य योग-क्षेमकृन्नाथः [ ] इति वचनाद् अप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य तस्यैव पालनेन चेति । लोकनाथत्वं च तात्त्विकं तद्धितत्वे सति सम्भवतीत्याह- लोकस्य एकेन्द्रियादिप्राणिगणस्य हित: आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकूलवृत्तिर्लोकहितः, तेन । यदेतन्नाथत्वं हितत्वं वा 5 तद्रव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह- लोकस्य विशिष्टतिर्यग्नरा-ऽमररूपस्याऽऽन्तरतिमिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वात् प्रदीप इव प्रदीपो लोकप्रदीपः, तेन । इद च विशेषणं द्रष्टलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह- लोकस्य लोक्यते इति लोक इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थ- 10 केवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः, तेन । । ननु लोकनाथत्वादिविशेषणयोगी हरि-हर-हिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह- न भयं दयते प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः, अभया वा 15 सर्वप्राणिभयपरिहारवती दया घृणा यस्य सोऽभयदयः, हरि-हरादिस्तु नैवमिति, तेनाऽभयदयेन । न केवलमसावपकारकारिणामप्यनर्थपरिहारमात्रं करोति, अपि त्वर्थप्राप्ति करोतीति दर्शयन्नाह- चक्षुरिव चक्षुः श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्, तद्दयते इति चक्षुर्दयः, तेन । यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-मार्ग सम्यग्दर्शन-ज्ञान-चारित्रात्मकं परमपदपथं दयत 20 इति मार्गदयः, तेन । यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह- शरणं त्राणं नानोपद्रवोपद्रुतानां तद्रक्षास्थानम्, तच्च परमार्थतो निर्वाणम्, तद्दयत इति शरणदयः, १. “तथा लोकनाथेभ्य इति योगक्षेमकृदयमिति विद्वत्प्रवादः" इति ललितविस्तरायाम् ।। २. 'त्यत आह खं०॥ ३. भवतीति जे२ हे१,२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy