________________
. आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे प्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम्, आह च- अयले भयभेरवाणं खंतिक्खमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं कए महावीरे [पर्युषणा० ] त्ति। कथम्भूतेनेत्याहआदौ प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील
आदिकरः, तेन । तथा तरन्ति तेन संसारसागरमिति तीर्थं प्रवचनम्, तदव्यतिरेकादिह 5 सङ्घस्तीर्थम्, तस्य करणशीलत्वात् तीर्थकरः, तेन । तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह- स्वयम् आत्मनैव नान्योपदेशतः सम्यग् बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति स्वयंसम्बुद्धः, तेन ।।
स्वयंसम्बुद्धत्वं चास्य न प्राकृतस्येवासंभाव्यं पुरुषोत्तमत्वादस्येत्यत आह- पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद् ऊर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमः, तेन । अथ 10 पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह- सिंह इव सिंहः, पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुब्जताकरणाच्च इति, अतस्तेन । तथा
वरं च तत् पुण्डरीकं च वरपुण्डरीकं धवलं सहस्रपत्रम्, पुरुष एव वरपुण्डरीकं 15 पुरुषवरपुण्डरीकम्, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च
शुभैरनुभावैः शुद्धत्वादिति, अतस्तेन । तथा वरश्चासौ गन्धहस्ती चे वरगन्धहस्ती, पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव सर्वगजा भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईति-परचक्र-दुर्भिक्ष- जनमरकादीनि दुरितानि नश्यन्तीति,
अतस्तेन पुरुषवरगन्धहस्तिना । 20 न भगवान् पुरुषाणामेवोत्तमः, किन्तु सकलजीवलोकस्यापीत्यत आह- लोकस्य तिर्यग्-नर-नरकि-नांकिलक्षणजीवलोकस्य उत्तमः चतु स्त्रिंशद्बद्धातिशयाद्यसाधारणगुणगणोपेततया सकलसुरा-ऽसुर-खचर-नरनिकरनमस्यतया च प्रधानो
१. पीयूषपाना देवाः, तेषां प्रभव इन्द्रा इत्यर्थः ॥ २. दृश्यतां पृ.३ टि० ३ ॥ ३. प्राणा' जे१.खं० ॥ ४. तथा नास्ति जे१ खं० ॥ ५. चास्य प्राकृ खं० ॥ ६. °धुपमात्रयेणास्य जे२ ॥ ७. प्रहतवर्ध जे२ ॥ ८. शुभत्वा' जे२ ॥ ९. च नास्ति जे२ खं० ।। १०. जनडमरका जे१ ॥ ११. दुरितानि नश्यंतीति [सपाद- खंसं०] शतयोजनमध्ये अतस्तेन जे१ खं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org