________________
[सू० १]
सम्बन्धसूत्रम् । दसणधरेणं विअट्टच्छउमेणं जिणेणं जाणएणं तिनेणं तारएणं बुद्धणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिणामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा- आयारे १, सूयगडे २, ठाणे ३, समवाए ४, विवाहपण्णत्ती ५, णायाधम्मकहाओ ६, उवासगदसातो ७, अंतगडदसातो 5 ८, अणुत्तरोववातियदसातो ९, पण्हावागरणाइं १०, विवागसुते ११, दिट्टिवाए १२ ।
तत्थ णं जे से चउत्थे अंगे समवाए त्ति आहिते तस्स णं अयमढे, तंजहा
[टी०] कस्यांचिद् वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा- इह खलु समणेणं भगवयेत्यादि, तामेव चे वाचनां बृहत्तरत्वाद् व्याख्यास्यामः । इदं च 10 द्वितीयसूत्रं सङ्ग्रहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम् ।।
अस्य चैवं गमनिका- इह अस्मिल्लोके निर्ग्रन्थतीर्थे वा, खलुक्यालङ्कारे अवधारणे वा, तथा च इहैव, न शाक्यादिप्रवचनेषु, श्राम्यति तपस्यतीति श्रमणः, तेन, इदं चान्तिमजिनस्य सेहसन्मतिसम्पन्नं नामान्तरमेव, यदाहसहसंमुईयाए समणे [आचा० सू० ७४३] त्ति । भगवतेति पूर्ववत् । महांश्चासौ वीरश्चेति 15 महावीरः, तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽ१. च जेर हे१ नास्ति ॥२. सहजसन्मति खं० विना। सहजसम्मति हे१॥३. सहसंमुइयाए हे१,२। सहसमुयाए जे२ । “समणे भगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामधिज्जा एवमाहिजंति, तंजहा- अम्मापिउसंतिए वद्धमाणे १, सहसमुइयाए समणे २, अयले भयभेरवाणं, परीसहोवसग्गाणं खंतिखमे, पडिमाणं पालए, धीमं, अरतिरतिसहे, दविए, वीरियसंपन्ने, देवेहिं से नाम कयं 'समणे भगवं महावीरे' ३।" इति पर्युषणाकल्पसूत्रे सू० १०८ । “श्रमणो भगवान् महावीरः काश्यप इतिनामकं गोत्रं यस्य स तथा, तस्य भगवतः त्रीणि अभिधानानि एवमाख्यायन्ते, तद्यथामातापितृसत्कं मातापितृदत्तं वर्धमान इति प्रथमं नाम १, सहसमुदिता सहभाविनी तपःकरणादिशक्तिः, तया श्रमण: इति द्वितीयं नाम २, भयभैरवयोर्विषये अचलो निप्रकम्पः, तत्र भयम् अकस्माद्भयं विद्युदादिजातम्, भैरवं तु सिंहादिकम्। तथा परिषहाः क्षुत्पिपासादयो द्वाविंशतिः, उपसर्गाश्च दिव्यादयश्चत्वारः, सप्रभेदास्तु षोडश, तेषां क्षान्त्या क्षमया क्षमते, न त्वसमर्थतया, य: स क्षान्तिक्षमः । प्रतिमानां भद्रादीनाम् एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः । धीमान् ज्ञानत्रयाभिरामत्वात् । अरति-रती सहते, न तु तत्र हर्ष-विषादौ कुरुते इति भावः । द्रव्यं तत्तद्गुणानां भाजनम्, रागद्वेषरहित इति वृद्धाः । वीर्यं पराक्रमः, तेन सम्पन्नः । यतो भगवानेवंविधस्ततो देवै: से इति तस्य भगवतो नाम कृतं श्रमणो भगवान् महावीर इति तृतीयम् ३।" इति पर्युषणाकल्पसूत्रस्य टीकायां सुबोधिकायाम् ॥ ४. वते त्ति जे१,२ खं० ॥ ५. षहोपनिपातेऽप्यप्रकम्पत्वेन जे२, हे१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org