SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः । समवयन्ति वा समवतरन्ति सम्मिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवाय इति । स च प्रवचनपुरुषस्याङ्गमिवाङ्गमिति समवायाङ्गम् । ___ तत्र किल श्री श्रमणमहावीरवर्द्धमानस्वामिसम्बन्धी पञ्चमो गणधर 5 आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामानमभि समवायाङ्गार्थमभिधित्सुः भगवति धर्माचार्ये बहुमानमाविर्भावयन् स्वकीयवचने च ‘समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितमहावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदम्' इति शिष्यस्य मतिमारोपयन्निदमादावेव सम्बन्धसूत्रमाह- सुयं मे इत्यादि । श्रुतम् आकर्णितं मे मया हे आयुष्मन् चिरजीवित ! जम्बूनामन् ! तेणं ति योऽसौ निर्मूलोन्मूलितराग... 10 -द्वेषादिविषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसर्पत्सुधाधवलयशोराशिस्तेन महावीरेण भगवता समग्रैश्वर्यादियुक्तेन एवमिति वक्ष्यमाणेन प्रकारेण आख्यातम् अभिहितम् 'आत्मादिवस्तुतत्त्वम्' इति गम्यते । अथवा आउसंतेणं ति भगवता इत्यस्य विशेषणम्, आयुष्मता चिरजीवितवता भगवतेति। अथवा पाठान्तरेण ‘मया' इत्यस्य विशेषणमिदम्, 15 आवसता मयाः गुरुकुले, आमृशता वा संस्पृशता मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति । यद्वा आउसंतेणं ति आजुषमाणेन प्रीतिप्रवणमनसेति । यदाख्यातं तदधुनोच्यते- एगे आया इत्यादि । [सू०१] [२] इह खलु समणेणं भगवता महावीरेणं आदिकरेणं तित्थकरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा 20 लोगोत्तमेणं लोगनाहेणं लोगहितेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदएणं धम्मदेसएणं धम्मणायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवहिणा अप्पडिहतवरणाण१. मिह स जे२ ॥ २. शिष्यमतिं चारोप खं० जे१ ॥ ३. चिरजीविना भगवतेति अथवा मयेत्यस्य हे२ ॥ ४. 'आवसंतेणं' इति पाठान्तरमत्राभिप्रेतम् ॥ ५. 'आमुसंतेणं' इति पाठान्तरमत्राभिप्रेतम् ।। Jain Education International • For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy