________________
॥ अहम् ॥ नवाङ्गीटीकाकारश्रीमदभयदेवसूरिविरचितटीकाविभूषितं पञ्चमगणधरदेवश्री सुधर्मस्वामिपरम्पराऽऽयातं
श्री समवायाङ्गसूत्रम् । [सूत्रम् १] [१] सुयं मे आउसं ! तेणं भगवता एवमक्खातं- 5 [टीका] श्रीवर्द्धमानमानम्य समवायाङ्गवृत्तिका ।।
विधीयतेऽन्यशास्त्राणां प्रायः समुपजीवनात् ॥१॥ दुःसम्प्रदायादसदूहनाद्वा भणिष्यते यद् वितथं मयेह ।
तद् धीधनैर्मामनुकम्पयद्भिः शोध्यं मतार्थक्षतिरस्तु मैवम् ॥२॥ इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो 10 भवतीति सोऽधुना समारभ्यते । तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवदवसेया, नवरं समुदायार्थोऽयमस्य- समिति सम्यक् अवेत्याधिक्येन अयनम् अयः परिच्छेदो १. श्री महावीर जैन विद्यालयेन विक्रमसंवत् २०४१ [ईशवीयसन १९८५] वर्षे प्रकाशिते जैनागमग्रन्थमालायाः तृतीये ग्रन्थाङ्के प्राचीनान् हस्तलिखितादर्शानवलम्ब्य अस्माभिः संशोधितं सम्पादितं च यत् समवायाङ्गसूत्रं वर्तते प्रायः तदेवात्र मुद्रितम् । ये तु तत्र पाठभेदाः ते जिज्ञासुभिः तत्रैव विलोकनीयाः ॥ २. अत्रेदमवधेयम्- अस्याः समवायाङ्गवृत्तेः संशोधनं जे१,२, खं० इति प्राचीनांस्तालपत्रोपरिलिखितानादर्शानवलम्ब्य विहितम् । जे१ = जेसलमेरुदुर्गस्थे खरतरगच्छीयाचार्यश्री जिनभद्रसूरिभिः विक्रमसंवत् १४०१ वर्षे संस्थापिते तालपत्रीयजैनग्रन्थभाण्डागारे विद्यमान आदर्शः, New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION अनुसारेण अस्य'८'अष्टमः क्रमाङ्कः, अत्र १-४५ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तते, पञ्चदशं पत्रमत्र नास्ति, ४६-१३४ पत्रेषु समवायाङ्गवृत्तिर्वर्तते, “समवायाङ्गवृत्तिः सम्पूर्णा ॥ संवत् १४८७ वर्षे पोस सुदि १० रवौ” इति अस्यान्ते उल्लेखः॥ जे२ = अयमपि जेसलमेरुदुर्गस्थ एवादर्शः, अस्य '९' नवमः क्रमाङ्कः, अत्र १-६४ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तते, चतुर्विंशतितमं पत्रमत्र नास्ति, ६५-२१५ पत्रेषु समवायावृत्तिर्वर्तते, “संवत् १४०१ वर्षे माघ-शुक्ल एकादश्यां श्री समवायाङ्गसूत्रवृत्तिपुस्तकं सा. रउलासुश्रावकेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालङ्कार श्रीजिनचन्द्रसूरिसुगुरोः प्रादायि । आचन्द्रार्क नन्दतात्" इति अस्यान्ते उल्लेखः । खं० = खम्भातनगरे श्री शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमान आदर्शः Catalogue of Palm-leaf Manuscripts in the Santinatha Jain Bhandara, Cambay अनुसारेण अस्य क्रमाङ्कः ३७, अत्र १-९७ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तते, ३४, ३५, ६७ तमानि पत्राणि न सन्ति, ९८-३३० पत्रेषु समवायाङ्गवृत्तिवर्तते, १८३, २७३ तः २७८, ३१८, ३२० तः ३२२ पत्राणि न सन्ति, "संवत् १३४९ वर्षे माघ सुदि १३ अद्येह दयावटे श्रे० होना श्रे० कुमरसीह श्रे० सोमप्रभृतिसंघसमवायसमारब्धपुस्तकभाण्डागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम्' इत्येवमस्यान्ते उल्लेखः । अत्रोपयुक्तानां हे१,२ इति कागजपत्रोपरिलिखितानामादर्शानां तु स्वरूपमस्य ग्रन्थस्य प्रान्ते टिप्पणे विलोकनीयम् ॥ ३. स्था० टी० पृ०२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org