________________
परमार अभिलेख
४७.
त्वन्नेनाग्नि व्यतिकरमिव प्राक्तनं पुष्पचा]
पः। स्मृत्वा नूनं व्यवसित मतिर्वैर निर्यातनाय । यत्सन्स (त्संस)क्तं तव चरणयोर्देव सेवानुरागात्तन्मे चेतः प्रहरति शरैस्त्यक्ष तद्रक्ष यत्नात् ।।५९।। भिक्षापात्रं मृगजमजिनं जीर्ण कौपीनमेकं कथा रथ्या निपतित जरच्चीरलेशैश्च लघ्वी । एतावा[न्मे हर परिक]
रस्त्वत्प्रसादेन नित्यं भूयाद्भूयस्तव चरणयोभूयसी भक्तिरेका ।।६०।। देवस्तावद्भवति भगवन्भर्गसर्गस्य सारस्तस्मात्पूर्व महदितिपदं प्रोक्तमुत्कर्षमाह। माहात्म्यं ते स्मरहर महादेव नाम्नैव लोके दूरारूढं वरद किमहं स्तोत्रमन्यत्करोमि ।।[६१॥ कालेन]
नीतः सोपि पुनरावर्तते जनः महाकालेन नीतस्य नावृत्तिविद्यते पुनः ॥६२।। अव्यक्ताक्षर जल्पितैरपि शिशो: प्रीतिगुरूणां भवेतेनास्मद्वचनं मलीमसमपि स्यात्तुष्टिहेतुस्तव । श्रान्तस्त्वद्गुण कीर्तनात्किमपि यत्पुण्यं मयोपाजितं तेन] __ स्याज्जननान्तरेपि महती त्वय्येव भक्तिर्मम ।।६३॥ द्विजो दक्षिण राढीयो नवग्राम विनिर्गतः हलायुध वु(बु)धश्शम्भोरिमांस्तुतिमरीरचत् ॥६४।। प्रथमं तु महादेवं द्वितीयं च महेश्वरं (रम् ) [1] त्रि (तृ) तीयं शंकरं ज्ञेयं चतुर्थं वृषभध्वजं (जम्) [॥६५।।] पंचमं कृत्तिवासं च ष]
ष्ठं कामाङ्ग नाशनं (नम्) [1] सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं स्मृतं (तम्) [॥६६।।] नवमं ई (ही) श्वरं देवं दशमं पार्वतीप्रियं (यम्) [1] रुद्रमेकादशं नाम द्वादशं शिवमुच्यते [॥६७।।] द्वादशैतानि नामानि उभयेसंध्य (यो)त् यः (ययो) पठेत् [1] गोघ्नः कृतघ्नश्चैव व (अ) महा गुरुतल्पगः [॥६८॥] स्त्रीवा (बा)ल[घातकश्चैव]
सुरापी वृषलीपतिः [0] मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति [॥६९।।] अविमुक्तश्च केदार ओंकारश्चामरस्तथा [1] पंचमं (मस्)तु महाकाल: पंचलिङ्गाः प्रकीर्तये (त्तिताः)।[७०॥]
४८
५०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org