________________
मान्धाता अभिलेख
३३१
३९.
४१
यत्प्रत्यक्षं न भवति नृणामि]
न्द्रियाणामशक्यं यत्सम्व (त्संब)न्ध ग्रहण विरहान्नानुमेयं च किन्चि (किंचित् । शब्दा (ब्दा) दीनामपि न विषयं यत्परोक्ष स्वरूपं ज्ञान ज्योतिर्यदिह परमं सत्व (त्त्व)मध्यात्म मूर्तिः ।।५।। त्वामात्मानं वरद परमानंद वो (बो)ध स्वरूपं ये वु (बु) ध्यन्ते विगलित जगद्धेद मायाप्रपञ्चम् । रागत्यागात्]
स्तिमित मनसो देव जीवन्त एवं [भ्रश्य]न्माया निवि (बि)ड निगड ग्रन्थयस्ते विमुक्ताः ।।५२।। श्लाध्यंयत्तत्कृपि (प) णमनसां सप्तलोकाधिपत्यं या मृग्यंते तरलमतिभिः सिद्धयश्चाणिमाद्याः । एतत्सव मदनदहन त्वत्पद प्राप्ति भाजां तत्व (त्त्व) ज्ञानामृतर[सजुषां योगि]
नामन्तरायः ॥५३॥ आशावासः शयनमवनिर्व (बॅ)ह्मचर्यं च दीर्घ . मौनं दण्डग्रहणमशनं भिक्षया भस्म शौचं (चम्)। वैराग्यञ्च त्रिनयन भवत्तत्त्ववो (बो) धाद्विहीनं मूला देवं ध्रुवमलवणं सर्वमेतद्विभाति ।।५४।। स्थित्वा कालं चिरतरमपि व (ब्रह्मशक्रादि [लोके कर्म]
च्छेदात्पुनरपि ततः स्यादवश्यं निपातः । एकं नित्यं पदमुपगतः क्लेश कर्मोम्मिपाकं । शैवं ज्योतिर्यदिह सुलभं ज्ञानयोगेनपुन्सां (पुंसाम्) ।।५५ शक्रादीनां ऋतुफलयु (जु)षां यत्सुखं नाकलोके तत्कीटादेनरक निलयस्यापि तुल्यं विभाति । येनैकान्तं]
न भवति सुखं कस्य चिन्नापि दुःखं द्वन्द्वग्रस्तं त्रिभुवनमिदं त्वं तु तस्माद्विमुक्तः ॥५६।। व (ब)न्धच्छेदादिह तनुभृतां यत्त्वया साकमैक्यं साचेन्मुक्तिः शिव किमनया यातु यद्वान्धकूपं (पम्)। त्वं मे स्वामी भवदनुचरः शर्व यत्सर्वदाहं तद्धि श्लाघ्यं स्वपति [पदवीं काम]- ..
यन्ते न भृत्याः ॥५७।। वातोद्ध त स्फुट पुटकिनी पत्र तोयोपमाने को विश्वासं व्रजति चपले जन्मिनो जीवितेस्मिन् । . कान्तस्त्रीणां प्रिय सहचर निर्भरालिङ्गितं मे चेतः शम्भो स्वपिति न यथा तत्प्रसादं कुरुष्व ।।५८॥
४२.
४३
४४,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org