________________
मान्धाता अभिलेख
३२९
२६.
२७.
२८.
दारूद्याने द्विजवर वधूपप्लवो रेतसाग्नी होमः सन्ध्यानटनमिति ते चेष्टितं नैव दुष्टं (ष्टम्)। . [मिथ्या ज्ञानोप]
हतमनसां मार्गमुल्लङ्ग घ्य दूरं ये निःका (निष्क्रान्ता स्त्रिनयन न तां (तान्) लोकवादा:स्पृशन्ति ।।३४।। देवाः सर्वे दधति वपुषा भषणं हेमरत्नं गुजामात्र कनकमपि ते नास्ति कर्णे करे वा। मार्गातीतं स्फुरति सहजं यस्य सौन्दर्यमङ्गे तस्याहार्येष्वितरजनवन्ना]
दरः स्याद्गुणेषु ।।३५।। त्वं व (ब्रह्मादित्रिदशगुरुभिः पूजितः स्वार्थहेतोरित्याम्नायो न खलु भवता प्रार्थितः कश्चिनन्यः। इच्छामात्रात्स्वयमुपनमन्त्यग्रतो यस्य भावा स्तस्या पेक्षा कथमिह भवेदीश्वरस्येतरेषु ।।३६।। खण्डश्चन्द्रः शिर[सिपरशुः खण्डमे]
. वायुधन्ते भिक्षापात्रं द्रुहिणशिरसः खण्डमेकं कपालं (लम्)। खण्डप्रायस्तव परिकरो यद्यपीत्थं तथापि त्वं सर्वेषां स्मृतिमुपगतः सर्व्वपूर्णत्व हेतुः ॥३७॥ पृथ्वीपीठे कृतपदमदः स्वच्छमाकास (श) लिङ्ग तारापुष्पैः शिरसि रचिताभ्यर्चनं चन्द्रिचूड। इत्थं भावाद]
__ वहितधियो ये भवन्तं भजन्ते ते लीयन्ते त्वयि जलनिधौ निम्नगानामिवौघाः ॥३८॥ वाराणस्यां स्फुरति यदिदं देवदेवा विमुक्तं से (शै)वं ज्योतिः सकलभुवनालोकनादर्शभतं (तम्)। कृत्वा तस्मिन्प्रमहसि पदे क्षेत्रसन्यासयोगं [त्वय्ये]कत्वं व[जति पुरुषस्तेज]
सीव प्रदीपः ।।३९।। यत्प्रत्यक्षं सकल भुवनैश्वर्यभूतं विभाति ज्योतिलिङ्ग कनककपिशं श्रीगिरौ व्योम्नि दिव्यं (व्यम्)। तत्पश्यन्तः शिव सुकृतिनस्त्यक्तसंसार व (ब)न्धा स्त्वत्कारुण्याच्चिरगणपदप्राप्तिभाजो भवन्ति ।।४०॥ वाचाधीशं हुतवहतनुं शक्तिपाणि भवन्तं ये ध्यायन्ति त्रिनयन मनस्तेजसा निर्दहन्तं (न्तम्)। गङ्गास्रोतः सदृश
विलसद्गद्यपद्यप्रवाहैः सद्यस्तेषां प्रसरति [मुखाद्भा]रती नात्र चित्रं (त्रम्)॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org