________________
मान्धाता अभिलेख
३२५
श्लाध्यः पुत्रः स भवति किल स्वस्थ वत्पुः सकाशाद्धत्ते कै[श्चित् क्वचिदपि गुणैर्य]
": समुत्कर्षलेखाम् । इत्थं वांछन् पितुरधिकतांपंच वक्त्रस्य नूनं षष्ठं वि (बि) भ्रद्वदनमपरं पातु विश्वं विशाखः ।।२।। एकोदेवः स जयति शिवः केवलज्ञान मूर्तिदेवी साच त्रिभुवनमिदं यद्विभूति प्रपंचः । यत्कूटस्थं मिथुनभविना भाव संबंध योगान्मिश्री [भूतं तदखिल जगज्ज]
न्म बीजं नमामि ॥३॥ एकः सृ (स्रष्टा सकल जगतामादिभूतः स्वयंभूस्त्राता तेषां त्रिभुवनगुरुर्वासुदेवः प्रसिद्धः । यस्तौ द्वावग्यतलमहिमा संहरत्यन्त काले कस्तस्यान्यो भवति सदृशः श्रीमहाकालमूर्तेः ।।४।। वक्तुं वाञ्छां हर निरवधि त्वन्महिम्नः [स्वरूपं चेतश्चैत त्क]
तिपय पद ज्ञानमात्रावसन्न (न्नम्)। ज्ञात्वैवेदं विनयन मया त्वद्गुणस्तोत्रभक्त्या स्वात्मन्येव स्वयमपि कृतो धृष्टतापट्ट व (ब)न्धः ।।५।। वागीशस्त्वं युगपदखिल ज्ञान संपत्ति युक्तः का ते तुष्टिः स्तुतिरचनया मादृशस्याल्पशक्तेः। एवं ज्ञात्वा हर विर[मति स्तोत्र हेतो हठा]
न्मे
भक्त्यावेशात्प्रसरति मुखाभारती किं करोमि ॥६॥ यत्ते तत्त्वं निरुपधि परं वाङमनः पारभूतं व्र (ब्रह्मादीनामपि हरगिरस्तंत्रभग्नाः प्रवेष्टुं (ष्टुम्) । अर्वाचीनं यदपरमिदं पार्वतीवल्लभन्ते रूपं भक्तया वरद तदहं वाग्भिरभ्यर्चयामि ।।७।। अन्यैः स्तोत्रं रचितममृतस्यं]
दिभिर्वाग्विलासः फल्गु प्रायः किमिदमियता त्यज्यते मद्वचोभिः । किंवा कैश्चित्कनक कमलरचितं पादपीटं भक्त्या शंभो न पुनरपरः पूजयत्यर्कपुष्पैः ।।८।। पथ्याहारी हर जलमुचां यौ च यो पन्क (क)जानां मित्रामित्रौ वरद हबिषां दाहक ग्राहको]
यो। यो गंधस्य प्रजन वहनौ तानहं तुष्टि हेतोरष्टौ वन्दे त्रिभुवन गुरोर्मूर्तिभेदांस्तवतान् ।।९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org