SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नागपुर प्रशस्ति १०. ११. १२. १३. १४. Jain Education International आयातस्य कदाचन क्षितिपतेराच्छिन्दतः कौशिकस्थाति थ्योचितवस्तु जातजननादानन्दिनीं नन्दिनीं । निता कुपितेन तेन हविषा संहर्षिताद्व (द्व) हिषो वीरः श्रीपरमार इत्यनुपमः सत्याभिधानोभवत् ।। [१३ ।। ] राज्यवर्द्धन विशालधर्म्मभृत् सत्यकेतु पृथुकीति पार्थिवः । वर्द्धतेयमहिमांशुचन्द्रमः संतति प्रतिकृतिर्यदन्वय : । । [ १४ । ] वराजरामराजितोनलोद्भवः सभारतः । ग्रहेन्द्र चन्द्रयोरिव व्यजायतायमन्वय: ।। [१५॥] वंशेस्मिन्वैरिसिंहः क्षितिपतिरभवद्भूरिद्भूतिप्रभावप्रागल्भ्यौदार्यशौर्य प्रचयपरिचय प्राज्यसौराज्य सिद्ध: । नम्रक्ष्मापालभाल स्थलदलित लुलत्कान्तको टीरकोटि-त्रुट्यन्माणिक्य चक्रस्थपुटितमणिमत्पाद पीठोपकण्ठः ।। [१६ ।।] सर्व्वाशाविजयप्रयाणसमये यस्येन्द्रनीलप्रभैमयूरात पवारणैः शुशुभिरे नष्टावकाशा दिशः । सर्पन्मत्त करीन्द्रचक्रचरणप्राग्भा रदीर्ण स्थिरारोद्भूतविषन्न (ण) शेषसविष श्वासावरुद्धा इव ।। [१७ ।।] पाताले वडवामुखानलमिषात्पृथ्वीतले च स्फुरत्सौवर्णाचल कैतवाद्वियति च त्र (ब्र ) ह्माण्डखण्डच्छलात् । [च]ञ्चत्काञ्चनचक्रवालवलयव्याजाच्च दिङमण्डले यस्याद्यापि समुल्लसत्यविचलीभूतः प्रतापानलः ।। [१८ ।।] स्वल्र्लोकेषु च विद्विषत्क्षितिषु च व्यालेन्द्रगेहेषु च स्वाराजं च रिपुव्रजं च मुरजिन्नागाधिराजं च यः । ऐश्वर्येण च विक्रमेण च धराभारक्षमत्वेन च न्यक्कुर्व्वश्च पराभवंश्च समतिक्रामंश्च पृथ्वीमपात् ।। [१९ ।।] तस्माद्वैरिनृपावरोधनवधूवैधव्यदुःखोद्भव द्वापाम्भ कणशान्तकोपकोपदहनः श्रीसीयकोभून्नृपः । आविर्भावितनूतन स्थितिरयं व्र (ब्र ) ह्माण्डखण्डच्छलाद्यस्याद्यापि विलोक्यते विय [द] धोधूमः प्रतापानलः । [२०] || O अनुगगनमुदस्थुः स्थूलमुक्तोच्चया ये यदसिदलितकुप्यत्कुम्भिकुम्भस्थलेभ्यः । सततमपि पतन्तस्तेद्य यावन्न पृथ्वीं पृथुलतरलताराव्या भाजो भजन्ते ।। [२१॥] अत्याश्चर्यमदृष्टमश्रुतमिदं कस्मै समाचक्ष्महे को न्वेतत्प्रतिपद्यते च तदपि प्रस्तूयते कौतुकात् । उद्धृत्यापि वसुंधरामसदृशीं लव ( ब ) ध्वापि लक्ष्मीं च यः कूर्व्वन्कार्यमनेकशः सुमनसामागान्न वैकुण्ठतां । । [ २२ ।।] १६१ For Private & Personal Use Only www.jainelibrary.org
SR No.001130
Book TitleParmaras Abhilekh
Original Sutra AuthorN/A
AuthorAmarchand Mittal, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages445
LanguageHindi
ClassificationBook_Devnagari, History, & Society
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy