________________
परमार अभिलेख
तस्माद्वै
रिवरुथिनीव (ब)हुविधप्रारब्ध (ब्ध)[य]द्धाध्वरप्रध्वंसक पिनाकपाणिरजनि श्रीमुञ्जराजो नृपः । प्रायः प्रवृतवान्पिपालयिषया यस्य प्रतापानलो लोकालोकमहामहीध्रवलयब्याजान्महीमण्डलं ।।[२३॥] यस्मिन्सर्पति लीलयापि ललितः सैन्यैः समुज्ज
म्मितं वाहव्यूहविसारिधूलिपटलब्यालुप्तदिग्मण्डलैः। अत्यद्रीन्द्र] करीन्द्र [सञ्च]य पदप्रेङ्खोलनोच्छृङ्खलप्रेङ्खच्छृङ्खलतादनिर्भरभृत व (ब्रह्माण्डभाण्डोदरैः ॥२४॥] यनिस्तृ (वि) शनिरस्तमस्तकतया लठ(ब) ध्वान्यथा दुर्लभं देवत्वं स्वकव (ब)न्धमुद्ध]तपधो दृष्ट्वा भटै-.
वेष्टितं। संहर्षात्पततो विमानशिखरादाश्लिष्य कण्ठे हठाद्वीरान्सिङ्ग] ररागिणो रुरुधिरे संभूय सिद्धाङ्गनाः ॥[२५।।] तस्यासीदथ पार्थिवः पृथुयशाः श्रीसिन्धुराजोनुजः स्फूर्जद्वाडवपावकस्फुट[मोहः[सौन्द]र्यशौर्यानलः । यः संग्रामयु
*गान्तवल्गितभुजादुतिदूरोल्लसकल्लोलाथितमण्डलाग्रप [ट]लेनामञ्जलद्भूभृतः ।।[२६॥] व्रजति जयिनि यत्रामित्रजातेन जज्ञे तरलतुरगवेगोद्भुतभूरेणुराजिः । विकटकरटिभारभ्रष्टभूपृष्ठरन्ध्रा दुदित इव समन्तादन्तकालाग्निधूमः ।।[२७।।] गाम्भीर्यं प्रल
यार्णवस्य च व (ब)लं कल्पान्तवातस्य च स्थेमानं कमेठशितुश्च [गुरु]तां [व (ब्रह्माण्ड] भाण्डस्य च । तेजः कालहुताशनस्य च महीयस्त्वं धुचक्रस्य च स्वीत्कृत्येव विनिम्मितं यमविदुःप्रत्याजि पृथ्वीभुजः ।।[२८॥] तत्सूनुर्भुवनैकभूषणमभूद्भूपालचूडामणि-. च्छायाडम्ब (म्ब) रचुम्विताहिकमल: श्रीभोजदेवो नृपः । यस्याद्या[पि]स[माश्रयन्ति चरणौ शक्रासना[ध्या]सिनः स्पर्धाव (ब)न्धविनम्रनिर्जरनटत्कोटीरकोटित्विषः ।।[२९।।] रटत्पटहपाटवप्रकटझर्झरस्फूज्जितस्फुरडडमरूडम्व (म्ब) रोडडमरडिण्डिमोडडामरा। स्फु
टत्करट कुञ्जरप्रपदसंपतत्संभ्रमभ्रमद्भवन[म] भ्रमज्जग[ति] यच्चमू[रुच्च] कैः ।।[३०॥] वैकुण्ठः कमलासनाय चतुरास्याय स्वयंभूः पुनः पञ्चास्याय हराय' शम्भुरपि षड्वत्क्राय पुत्राय च । सेनानीरपि दन्दशूकपतयेजस्रं सहस्राननायाद्यापि स्पृहय
त्यमर्त्यसमितौ यात्कीति]मुत्कीर्तयन् ॥[३१॥]
२२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org