________________
मान्धाता अभिलेख
मूलपाठ
(प्रथम ताम्रपत्र-पृष्ठ भाग) १. ओं
जयति व्योमकेशोसौ यस्सर्गाय वि (बि) भति तां (ताम्) । एन्दवीं सि (शि) रसा लेखां जगद्वी (दी)जां
कुराकृति (तिम्) [१॥] तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पान्त-समयोद्दाम-तडिद्व
लयपिङ्गलाः ॥[२।।] परमभट्टारक-महाराजाधिराज-परमेश्वर-श्रीवाक्पतिराजदेव-पादा ४. नुध्यात-परमभट्टारक-महाराजाधिराज-परमेश्वर-श्रीसिन्धुराजदेव-पादानुध्यात-परम५. भट्टारक-महाराजाधिराज-परमेश्वर-श्रीभोजदेव-पादानुध्यात-परमभट्टारक-महा६. राजाधिराज-परमेश्वर-श्रीजयसिङ्घ (ह) देवः कुशली । पूर्णपथक-मण्डले म[क्तु]लाग्रा७. म-द्विचत्वारिंशदन्तःपाति-भीमग्रामे समुपगातान्समस्त-राजपुरुषान्द्रा (ब्राह्मणोत्तरान्प्र८. तिनिवासि-पट्टकिल-जनपदादींश्च समादिशत्यस्तु वः संविदितं । यथा श्रीमद्वा (द्धा) रा-व९. स्थितरस्माभिः स्नात्वा व (च) राचरगुरुं भगवत्तन्तिं] भवानीपतिं सम[भ्य] » संसारस्यासारतां दृष्ट्वा ।
वाताभ्रविभ्रममिदं वसुधाधिपत्य मापातमात्र-मधुरो विषयोपभोगः । प्राणास्तृणा
ग्र-जलविन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ।।[३॥] भ्रमत्संसार-चक्राग्रधा
राधारामिमां श्रियं (यम्) । प्राप्य ये न ददुस्तेषां पश्चात्तापः परं फलं (लम्)।[४।।] इतिजगतो विनस्व (श्व) रं १३. स्वरूपमाकलय्योपरिलिखित ग्रामोयं स्वसीमा-तृण-गोचरयूति-पर्यन्तः सहिरण्य१४. भागभोगः सोपरिकरः सादाय-समेतस्च (श्च) श्री अमरेस्व (श्व) र पट्टशाला-व्रा (ब्राह्मणेभ्यः
(भ्यो) १५. स्वहस्तोयं श्रीजयसिंङ्घ (ह) देवस्य ।
(दूसरा ताम्रपत्र-अग्रभाग) १६. भोजनादि-निमित्तं मातापितोरात्मनश्च-पुण्य यशोभिवृद्धयेऽदृष्टफलमंगी१७. कृत्य चन्द्राणिवक्षिति-समकालं यावत्परया भक्तया शाश (स)नेनो-दकपूर्व प्रतिपा१८. दित इति मत्वा तन्निवासि-पट्टकिल-जनपदैर्यथादीयमान-भाग-भोग-कर-हिर१९. ण्यादिकं देवता (ब्रा)ह्मण-भुक्तिवर्जमा[ज्ञा]-श्रवणविधेयैर्भूत्वा सर्वमेभ्यः समुपनेतव्यं २०. सामान्यं चैतत्पुण्यफलं वुद्धा (बुध्वा)ऽस्मद्वंशजैरन्यैरपि भावि-भोक्तृभिरस्मत्प्रदत्तधर्म२१. दायोयमनुमन्तव्यः पालनीयश्च । उक्तं च । व (ब)हुभिर्वसुधा भुक्ता राजभिः सगरा
दिभिः। यस्य यस्य यदा [भू]मिस्तस्य तस्य तदा फलं (लम्) ॥[५।।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org