________________
स्तुतिः।] ऐन्द्रस्तुतिचतुर्विशतिका । तस्मिन् । तस्य कस्य ? यस्य 'वाचा' वाण्या 'पवित्रे' मिथ्यात्वमलराहित्येन पावने 'चरित्रे' विहितानुष्ठाने 'रतः' आसक्तः 'मुनिजननिकरः' साधुजनसमूहः, 'वा'इति पादपूरणे, 'आचारतः' ज्ञानाचारादिकमाराध्य परि-सामस्त्येन क्षीणं-क्षयं गतं कर्म-मोहनीयादि यस्य तादृशः सन् स्फुरत्-देदीप्यमानं ज्ञानं-केवलावबोधाख्यं भजतीति तद्भाक्, तादृशः 'सिद्धशर्माणि' मोक्षसुखानि 'लेभेतरां' प्रापतमाम् ॥ १॥ नयकमलविकासने का सुरी विस्मयस्मेर
वेत्राऽजनि प्रौढभामण्डलस्य क्षतध्वान्त ! हे !, न तव रविभया समानस्य रुच्याऽङ्गहारा
हितेऽपारिजातस्य भास्वन् ! महे लास्यभारोचिते। कनकरजतरत्नसालत्रये देशनां तन्वतो
ध्वस्तसंसार ! तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभयासमानस्य रुच्याङ्गहारा
हिते पारिजातस्य भास्वन्महेलास्यभारोचिते ॥२॥ नयेति ॥ हे क्षतध्वान्त !' क्षतम्-अपनीतं ध्वान्तं-बाह्याभ्यन्तरभेदभिन्नं तमो येन तस्याऽऽमत्रणम् ; हे 'भावन् !' सूर्य !, क विधेये ? इत्याह-नयाः-नीतय एव कमलानि-पद्माश्रयत्ते(यास्ते) षां विकासने-उज्जम्भणे; हे ध्वस्तसंसार !' ध्वस्तः-हेतूच्छेदादपनीतः संसार:-जन्मपरम्परारूपो येन तस्याऽऽमत्रणम् , हे शुस. द्धोरणीनत !' देवश्रेणीनमस्कृत !, हे 'वर !' प्रधान !, हे 'तीर्थेशवार! तीर्थकरसमूह !, कनकरजतरत्नानां-हेमरूप्यमणीनां साल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org