________________
८०
यशोविजयोपाध्यायविरचिता
[श्रीमहावीर
त्रये-वप्रत्रये 'देशनां धर्मोपदेशं 'तन्वतः' प्रपञ्चयतस्तव ‘महे उत्सवे 'का सुरी' का देवी विस्मयेन-आश्चर्येण स्मेरे-उत्फुल्ले नेत्रेलोचने यस्यास्तादृशी नाजनि ? अपि तु सर्वाऽपि तादृशी अजनि । तव किम्भूतस्य ? प्रौढं-प्रकृष्टं भामण्डलं यस्य स तथा तस्य । पुनः किं. 'रुच्या' कान्त्या प्रकृष्टभास्वररूपवत्त्वात् 'रविभया' तरणिकान्या 'समानस्य' सदृशस्य । पुनः किं० अप-गतम् अरिजातंरिपुचक्रं यस्मात् स तथा तस्य । पुनः किं० वि-गतं भयं अस्मादसौ विभयः, सह मानेन-अहङ्कारेण वर्तत इति समानः, न समानः असमानः, विभयश्वासावसमानश्च विभयासमानस्तस्य । पुनः किं० 'हिते' मनोवाञ्छितसुखे 'पारिजातस्य' सुरतरुसदृशस्य । महे किम्भूते ? अङ्गहारेण–अङ्गविक्षेपेण आहिते-न्यस्ते । पुनः किं० लास्यभारेण-नृत्यभरेण उचिते-राजमाने । पुनः किं० भास्वत्दीप्यमानं यत् महेलानां-रमणीनाम् आस्य-वदनं तस्य या भाकान्तिस्तया रोचिते-दिदृक्षूणां रुचिवम॑प्रापिते । सुरी किं. ? रुच्यो-रमणीयो अङ्गे-वक्षसि हारो यस्याः सा तथा ॥ २ ॥ वचनमुचितमहंतः संश्रय श्रेयसे प्रीणयद्
भव्य ! भीमे दधद् ध्वस्ततापं भवाम्भोनिधी, परमतरणहेतुलाभं गुरावाऽऽर्यमानन्दिता
ऽपायशो भावतो भासमानस्य माराजितम् । दलितजगदसद्भहं हेतुदृष्टान्तनिष्पिष्ट
सन्देहसन्दोहमद्रोह ! निर्मोह ! निःशेषिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org