________________
यशोविजयोपाध्यायविरचिता [श्रीमहाकीर“ मुनिजननिकरश्चरित्रे पवित्रे परिक्षीण... कर्मा स्फुरज्ञानभाक् सिद्धशर्माणि लेभेतरा· मुदितविभवसन्निधानेऽसमोहस्य सिद्धार्थ
नामक्षमाभृत्कुमाराऽपहेयस्य वाऽऽचारतः॥१॥ तवेति ॥ हे 'अनिशं' निरन्तरं मुदित!-आनन्दित !, हे 'पाथोधिगम्भीर !' समुद्रवदलब्धमध्य ! हे 'धीर !' पण्डित !, हे 'विभव ! विगतो भवः-संसारो यस्यासौ विभवः तस्य आमत्रणम् , हे सिद्धार्थ !' सिद्धः-परिनिष्ठितोऽर्थः-धर्मादिर्यस्य कृतकत्यत्वात् तस्याऽऽमन्त्रणम् , 'नाम' इति कोमलामणे, अथवा हे 'सिद्धार्थनाम !' गुणनिष्पन्नार्थाभिधान ! इत्येकं पदम् , हे 'क्षमाभृत् !' *क्षमां-* तितिक्षां बिभर्तीति क्षमाभृत् तस्यामन्त्रणम् , हे 'सिद्धार्थनामक्षमाभृत्कुमार !' सिद्धार्थाभिधानक्षोणिपालक्षीरकण्ठ !, हे 'जिनवर !' तीर्थकृत्प्रवर !, हे महावीर ! तस्य तव 'सन्निधाने' समीपे ‘रति' चित्तोत्साहं 'बद्धा' एकाग्रीकृत्य अहं 'योगमार्ग' रत्नत्रयपवित्राक्षयं भजेयं' श्रयेयम् । तव किम्भूतस्य ? असमा:निरुपमा ऊहा:-विचारा यस्य *स* तथा तस्य । पुनः किं ? सह मोहेन वर्तते यः स समोहः न समोहोऽसमोहः तस्य । पुनः किं०? अप-गतं हेयं-हातव्यं यस्य निराश्रवत्वात् भवोपग्राहिणामपि च कर्मणामल्पस्थितिकत्वेन दग्धरज्जुस्वात्मीयत्वात् , तस्य । सन्निधाने किम्भूते ? कुत्सितो यो मार:-कन्दर्पः को:-पृथिव्या वा मार:मृत्युः तम् अपहन्ति-अपनयति यत् तत्र । पुनः किं. उदितम्उत्पन्नं विभवेन-धनेन सत्-शोभनं निधानं महापद्मादि यस्मात्
. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org