________________
स्तुतिः ।
ऐन्द्रस्तुतिचतुर्विंशतिका ।
लोक इति ॥ ' अहिपस्य' धरणेन्द्रस्य 'कान्ता' प्रेयसी - पद्मावती 'अद्य' अधुना 'लोके' भव्यप्राणिनि हितानाम् 'आलिं' * श्रेणि दद्यात् । किम्भूता ? 'संस्तवे च' परिचये च 'स्तवे च' गुणोत्कीर्त्तने च उच्चैर्यथा स्यात् तथा उचिता - अनुरूपा रुचिः - हितदित्सारूपा यस्याः सा तथा उचितरुचिः, अतिशयिता उचितरुचि: उचि• तरुचितमा, यथा परिचितानामानन्दं दत्ते तथा स्तोतॄणामपीति भावः । पुनः किं० ? अकस्य - दुःखस्य अन्तो यस्याः सकाशात् सा तथा । पुनः किं० ? लोकेशानाम् - इन्द्रादीनां नुत्या - स्तवनीया । पुनः किं० ? जनभजनेन - लोकानामुपासनया भवत् - उत्पद्यमानं गौरवं - गुरुत्वं यस्याः सा तथा । पुनः किं० ? 'मारवामा' मारं - मरणं वामयति- उद्बलयतीति मारवामा । किं कुर्वती ? ' रञ्जयन्ती' वशीकुर्वती, काम् ? 'सुरससुरसभाम्' उत्तमरसशालिनां सुराणां - देवानां सभां - पर्षदम् । पुनः किं कुर्वती ? 'जयन्ती' अभिभवन्ती 'व्यूह' समूहम्, केषाम् ? 'रिपूणां' शत्रूणाम्, व्यूहं किं० ? विशिष्टा ऊहा:-विचारा यस्य तम्। हितानां किम्भूतानाम् ? ईरितं - प्रेरितं दुरितमेव- पापमेव दुरन्तं - कृच्छ्रपर्यवसानम् अहितं यैस्तेषाम् ॥ ४ ॥
॥ इति श्रीपार्श्वजिनस्तुति विवरणम् ॥ २३ ॥
तव जिनवर ! तस्य बद्धा रतिं योगमार्ग
भजेयं महावीर ! पाथोधिगम्भीर ! धीरानिशं, मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थनाम ! क्षमाभृत् ! कुमारापहे यस्य वाचा रतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org