________________
स्तुतिः ॥ ]
ऐन्द्रस्तुति चतुर्विंशतिका |
तेनेति व्याख्येयम्, अमस्य - ज्ञानस्य आय:-लाभः तेन आ-समन्तात् चिता-व्याप्ता इति भारतीविशेषणमेव वा । सा का ? या 'गङ्गेव' सुरसरिदिव 'पूता' पवित्रिता 'जनस्य' लोकस्य 'असा' वेगेन 'अखिलं ' सकलं 'प' पापं 'हरति अपनयति, गङ्गाऽपि जनस्याखिलं पठ्ठे - कर्दमं हरतीति श्लेषः ॥ ३ ॥
व्योम स्फारविमानतूर निनदैः श्रीनेमिभक्तं जनं, प्रत्यक्षामरसालपादपरतां वाचालयन्ती हितम् । दद्यान्नित्यमिताssम्रलुम्बिलतिकाविवाजिहस्ताऽहितं प्रत्यक्षामरसालपादपरताऽम्बा चालयन्ती हितम् ॥४॥ ॥ इति श्रीनेमिजिनस्तुतिः ॥ २२ ॥
व्योमेति || ' अम्बा' अम्बिकादेवी 'नित्यं' निरन्तरम् 'ईहितं' बान्छितं हितं सुखं दद्यात् । किं० ? आम्रलुम्बिलतिकया विभ्राजी - शोभमानो हस्तो यस्याः सा तथा । पुनः किं० ? 'श्रीनेमिभक्तं ' श्रीनेमिनाथे भक्तिमन्तं जनं 'प्रति' लक्षीकृत्य प्रत्यक्षः - साक्षाद्भूतो योऽमरसालः- कल्पतरुः तद्वत् वाञ्छितदत्वात् पादौ चरणौ यस्माः अत एव परा- उत्कृष्टा तस्या भावः तत्ता ताम् ' इता' प्राप्ता । किं कुर्वती ? 'स्फारविमानतूर निनदै: ' उदारविमानतूर्यनिर्घोषैः 'व्योम' गगनं 'वाचालयन्ती' मुखरयन्ती । पुनः किं कु० ? 'अहितं' वैरिणं 'वालयन्ती' भापयन्ती, किम्भूता ? अक्षामः - अकृशः फलसमृद्धो यो रसालपादपः- सहकारतरुः तत्र रता-सक्ता ॥ ४ ॥
॥ इति श्रीनेमिजिनस्तुतिविवरणम् ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
6
www.jainelibrary.org