SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [श्रीनेमिजिनकान्या 'उदित्वराः' प्रतिदिनमुदयनशीलाः । राज्यर्द्धिषु किम्भूतासु ? प्रकर्षेण उल्लसन्ति यानि धामानि-गृहाणि अनेकपाश्चहस्तिनः ते राजितासु-शोभितासु । पुनः किम्भूताते ? आमो. दिता इव हर्षिता इव, अमोदिताः काभिः ? 'योधालीमिः' सुभटश्रेणिमिः, किम्भूतामिः ? विभया-भयरहिता असन्ना-अखिन्ना: *च* तामिः । *पुनः* राज्यर्द्धिषु किं. १ प्रकर्षण स्फुरद्-दीप्यमानं धाम-तेजो येषां तादृशा ये अनेके-सकलाः परा:-शत्रवः तैः अजि. वासु-अवशीकृतासु । स्फातयः किं० ? सती शोभना नाभिर्यासां तादृश्यो या रामा:-त्रियः ताभिः उदिताः-प्राप्तोदयाः ॥२॥ या गडेव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा, भारत्याऽऽगमसङ्गता नयतताऽमायाचिता साऽधुना। भध्येतुं गुरुसन्निधौ मतिमता कतुं सतां जन्मभीभारत्यागमऽसङ्गता न यततामाऽऽयाचिता साधुना॥२॥ येति ॥ सा 'आगमसङ्गता' सिद्धान्तसम्बद्धा 'भारती' वाणी 'अधुना' इदानीं 'सतां' साधूनां 'जन्मभीभारत्यागं' संसारमयसमूहाहाणं 'कतुं' विधातुं 'यतताम्' उद्यच्छतु । किं० ? 'नासङ्गता' न सङ्गतिविरहिता । पुनः किं ? नयैः-नैगमादिभिः तता-वितीर्णा । पुनः किं. १ 'मतिमता' बुद्धिशालिना 'साधुना' यतिना 'गुरुसन्निधौ' अध्यापकसविधे 'अध्येतुं' पठितुं आ-समन्तात् याचिता-प्रार्थिता, इच्छाकारपूर्वव हि साधूनां सर्वत्र प्रवृत्तिरित्येवमुक्तिः । पुनः किं० ? मायया-कपटेन अचिता-अव्याप्ता, साधुना किं. ? मायां चिनोतीति मायाचित् न तारग् अमायाचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy