SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्तुतिः।] ऐन्द्रस्तुतिचतुर्विशतिका । आधिः-मानसी पीडा पापं-दुरितं तानि यति-खण्डयति यः स तथा तम् । पुनः किं० ? विगणितं-तृणवत् परित्यक्तं चक्रवर्तिवैभवं-षट्खण्डप्रभुत्वं येन स तथा तम् । पुनः किं० ? उद्दामःसर्वातिशायी पराक्रमः-शक्तिविशेषो यस्य स तथा तम् । पुनः किं० ? सुष्टु-शोभनो रसो येषां ते सुरसाः, सुरसा अर्थाः यस्याः सा सुरसार्था, सुरसार्था वाग् यस्य स तथा तम् । पुनः किं० ? यमान्-महाव्रतानि ददातीति यमदः तम् ॥ १ ॥ भीमभवं हरन्तमपगतमदकोपाटोपमहतां, स्मरतरणाधिकारमुदितापदमुद्यमविरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थितरत्नरुचाऽरुणक्रम, स्मरत रणाधिकारमुदितापदमुद्यमविरतमुत्करम् ॥२॥ भीमभवमिति ॥ यूयं 'अहंतां' तीर्थकृताम् 'उत्कर' समूहम् 'अविरतं' निरन्तरं 'स्मरत' स्मृतिविषयं कुरुत । किम्भूतम् ? अपगतो मदः-अहङ्कारः कोपाटोप:-क्रोधडम्बरश्च यस्मात् स तथा तम्। पुनः किं० ? स्मरस्य-कन्दर्पस्य तरणे-पारगमने योऽधिकारस्तेन मुदिता-परसुखतुष्टिः तस्याः पदं-स्थानम् । पुनः किं० ? उदूउत्कृष्टा या-लक्ष्मीः यस्य स तथा *तम् । पुनः किं ? भक्त्या नता येऽखिला:-सर्वे सुराः-देवाः तेषां मौलि:-(मौलयः-मुकुटाः) तत्र स्थितानि यानि रत्नानि तेषां रुचा-कान्त्या 'अरुणक्रम' पाटलचरणम् । पुनः किं० ? उद्यमेन-आदरेण ये विरताः-गृहीतव्रतास्तेषां मुदम्-आनन्दं करोति यः स तथा तम् । किं कुर्वन्तम् ? १" यम-मृत्युं यति-खण्डयति तम्" इत्यवचूर्याम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy