________________
ચૂંટ
यशोविजयोपाध्यायविरचिता [ श्रीअरनाथ
'हरतु' अपनयतु । किम्भूता ? कलिता - परिशीलिता मदनलीलाकामक्रीडा यया सा तथा, कस्मात् ? 'कान्तात् ' रमणात्, किम्भूतात् ? उचितः - योग्यो मारः - कन्दर्पो यस्य स तथा तस्मात् । पुनः किम्भूता ? ' अधिष्ठिता' आश्रिता, किम् ? 'धाम' गृहम्, किम्भूतम् ? 'चारु' मनोहरम् । पुनः किंविशिष्टा ? सन् - शोभनोऽसि:-खड्गो यस्याः सा तथा । किं कुर्वती ? तन्वती, किम् ? 'शर्म' सुखम्, किम्भूतम् ? 'रुचितम् ' रुचिविषयम् । किम्भूता ? 'आराद्धा' कृतभजना । अपकारः किं० ? 'अमहं' नास्ति महः - उत्सवो यत्र यस्माद् वा तम्, पुनः किं० ? तापं कारयतीति तापकारः तम् ॥ ४ ॥
॥ इति श्री कुन्थुजिनस्तुति विवरणम् ॥ १७ ॥
हरन्तं संस्तवीम्यहं त्वामरजिन ! सततं भवोद्भवामानमदसुरसार्थवाचंयम ! दम्भरताधिपापदम् । विगणितचक्रवर्त्तिवैभवमुद्दामपराक्रमं हता
मानमद ! सुरसार्थवाचं यमदं भरताधिपाऽऽपदम् ॥ १ ॥ हरन्तमिति ॥ हे 'आन० यम !' आ - समन्तात् नमन्तःप्रणामं कुर्वन्तोऽसुरसार्थाः - दानवगणाः वाचंयमाः - श्रमणाश्च यस्य स तथा तस्य आमन्त्रणम्, हे 'हवामानमद !" हतः - निराकृतः अमान:- अपरिमाणो मदः - अहङ्कारो येन स तथा तस्यामन्त्रणम्, हे 'भरताक्षिप !' भारत क्षेत्रप्रभो ! हे अरजिन ! 'भवोद्भवां' संसारोत्पन्नाम् आपदं' विपत्ति 'हरन्तम्' अपनयन्तं त्वामहं 'सततं' निरन्तरं संस्तवीमि । त्वां किं० ? दम्भः - कपटं रतं - निधुवनम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org