SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ स्तुतिः।] ऐन्द्रस्तुतिचतुर्विंशतिका । ५७ अवतु गदितमाप्तस्त्वा मतं जन्मसिन्धौ, परमतरणहेतु च्छायया भासमानैः । विविधनयसमूहस्थानसङ्गत्यपास्ता परमतरण ! हेऽतुच्छायया भाऽसमानैः ॥ ३ ॥ अवत्विति ॥ हे विविध० रण !' विविधाः-विचित्रा ये नया:-नैगमादयः तेषां समूहः-समुदायः तस्य या स्थानसङ्गतिः औचित्येन योजनं तया अपास्त:-निराकृतोऽपरेषां-नैयायिकादीनां मतमेव-दर्शनमेव रणः-संग्रामो येन स तथा तस्य आमन्त्रणम् ; 'आप्तैः' तीर्थकरैः 'गदितम्' अभिहितं मतं त्वा 'अवतु' रक्षतु । किम्भूतम् ? 'जन्मसिन्धौ' संसारसमुद्रे ‘परमतरणहेतु' अतिशयितपारगमननिबन्धनम् । आप्तैः किम्भूतैः ? 'भासमानैः' * 'शोभमानैः' *, कया ? 'छायया' शोभया, किम्भूतया ? अतुच्छ:विपुल आयः-लाभो यस्यां सत्यां यस्याः सकाशाद्वा सा तथा तया। * पुनः * आप्तैः किम्भूतैः ? भया-कान्त्या असमानैःनिरुपमानैः ॥ ३ ॥ कलितमदनलीलाऽधिष्ठिता चारु कान्तात् सदसिरुचितमाराद् धाम हन्तापकारम् । हरतु पुरुषदत्ता तन्वती शर्म पुंसां, सदसि रुचितमाऽऽराद्धाऽमहं तापकारम् ॥४॥ ..॥ इति श्रीकुन्थुजिनस्तुतिः ॥ १७ ॥ कलितेति ॥ पुरुषदत्ता 'हन्त' इति कोमलामरगे 'पुंसां' पुरुषाणां 'सदसि' सभायाम् 'अपकारं' परलोकापायलक्षणमपराधं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy