________________
यशोविजयोपाध्यायविरचिता [श्रीकुन्थुजिनस इति ॥ स जिनकुन्थुः 'जयति' सर्वोत्कर्षेण वर्तते। किम्भूतः ? 'महति' विमले 'सुरमणीनां देवताधिष्ठितानां चतुर्दशरनानां 'वैभवे' विभुत्वे लोभसंक्षोभेण-मूर्छाविप्लवेन हीनः-रहितः, किम्भूते ? सन्ति-शोभनानि निधानानि-महापद्मादीनि यत्र तत् तथा तस्मिन् । स कः ? यं विना इह 'भवे' संसारे 'वै' निश्चितं 'मुरमणीनां शोभनस्त्रीणां 'सन्निधाने अन्तिके * 'हन्त'. इति कोमलामन्त्रणे, केषां 'मानसं' चित्तम् 'अहति' बाधारहितम् ? न * केषामपीत्यर्थः ॥ १॥
जयति जिनततिः सा विश्वमाधातुमीशाs
मदयतिमहिताऽरं किन्न रीणामपाशम् । विलसितमपि यस्याः हन्त नैव स्म चित्तं,
मदयति महि तारं किन्नरीणामपाशम् ॥ २ ॥ . जयतीति ॥ सा 'जिनततिः' तीर्थकरश्रेणिर्जयति। किम्भूता ? "विश्वं जगत् 'रीणाऽऽमपाशं क्षीणरोगपाशम् 'आधातुं' कत्तुं किं 'न ईशा' न समर्था ? अपि तु समथैवेत्यर्थः । पुनः किं० ? 'अरम्' अत्यर्थम् * अमदाः * अनहङ्कारा ये यतयः-वाचंयमास्तैः महिताः-भावस्तवेन पूजिता। सा का ? यस्याः 'चित्तं' हृदयं किन्नरीणामपि 'विलसितं' गतस्मृतनृत्यादिचेष्टितं 'हन्त' इति कोमलामन्त्रणे नैव 'मदयति स्म' रुचिकारं कुरुते स्म । किम्भूतम् ? अप-गता आशा यस्मात् तत् , चिकीर्षितप्रभुविकारासिद्धेः। पुनः किं० ? 'महि' उत्सवंयु । पुनः किं० ? 'तारं' महोदारम् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org