________________
४६ यशोविजयोपाध्यायविरचिता [विमनजिनशासनं * 'मतम्' * अभीष्टं वैभवं विभवं प्रभुत्वं वा 'अरम्' अत्यर्थ क्रियात् । किम्भूतम् ? 'सदा' नित्यम् 'अनन्तरागततयां' अविच्छिन्नशिष्यप्रशिष्यादिपरम्पराप्राप्ततया 'चितं' पुष्टम् , सुसम्प्रदायेन निबद्धार्थमित्यर्थः । पुनः किं० ? 'समुदित' सह मुदाहर्षेण वर्त्तत इति समुत् तेन इतं-प्राप्तम् । पुनः किं. १ 'उदितम्, उक्तम्, केन ? 'शमवता' उपशमयुक्तेन 'अभवेन' भवरहितेन,' क्षीणघातिकर्मणा तीर्थकृतेत्यर्थः, किं कुर्वता ? 'अवता' रक्षता, कम् ? 'सदाशं सती-निदानाद्यकलङ्किता आशा-मोक्षेच्छा यस्य तम् , अवति हि भगवान् मुमुक्षु जनमुचितोपदेशदानेनेति सूक्तमेतत् । पुनः किम्भूतम् ? 'समुदितं नियुक्तिभाष्याद्यङ्गप्रबन्धेन पुखीभूतं सम्-सामत्येन उदितम्-उदयप्राप्तमिति वा । पुनः किं० अनोदितं 'अप्रेरितम्' क ? 'भवे' [संसारे], अथवा 'नो' इति नबर्थेऽव्ययम् , ततो 'भवे' संसारे 'नो दित' न खण्डितमित्यर्थः। पुनः किं० ? क्रियायां-प्रेक्षोत्प्रेक्षादौ आभ्यन्तरधर्मसाधने दृढयोगव्यापारे आदरः-प्राधान्येनोपदेशप्रवणत्वं यत्र तत् , अयमेव हि आगमोपनिषद्भूतोऽर्थः, यदुक्तम्
सबेसि पि णयाणं, बहुविहवत्तवयं णिसामित्ता। तं सवणयविसुद्धं, जं चरणगुणढिओ साहू ॥ इति ।
पुनः किं ? अनन्तः अपरिमितो यो राग:-आदरः तेन तता:विस्तीर्णा ये तैः ‘याचितम् ' अध्येतुं गुरुपार्श्वे प्रार्थितमित्यर्थः ॥३॥ प्रभा वितरतादरं सुरभियाऽतता रोहिणी
हिताशुगुरु चाऽपराजितकराशमारोचिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org