SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ स्तुतिः1]: ऐन्द्रस्तुतिचतुर्विशतिका । महायेति ॥ अजेषु-सिद्धेषु मध्ये गतिः-ामनं येषां तेऽजगतयः, ते च ते बोधिदा:-तीर्थकृतोऽजगतिबोधिदाः तेषाम् , 'अहो!' इत्याश्चर्ये 'दया' अनुपकृतोपचिकीर्षारूपा 'वः' युष्माकं 'महाय' उत्सवाय भवतु, केन ? 'तरसा वेगेन । किम्भूता दया ? 'हिता' हितकारिणी । अजगतिबोधिदानां किम्भूतानाम् ? 'भवतुदो' भवं-संसारं तुदन्ति-क्षपयन्तीति भवतुदस्तेषाम् । दया किं० ? 'तता' विस्तीर्णा । पुनः किं० । ? 'असकलहा' सह कलहेन वर्तते या सा सकलहा, न सकलहा असकलहा । पुनः किं० ? 'असमाना' निरुपमा, कया? 'आभया' शोभया कृत्वा । पुनः किं० १ 'महायतरसाहिता' महान्गुरुः आयतः-विस्तीर्णो यो रसः-शान्ताख्यस्तेन आहिता-स्थापिता, क ? 'जगति' विश्वे । पुनः किं० ? 'अधिदाना' अधिकृत्य अधिक दानं यस्याः सा तथा । पुनः किं० ? 'महोदया' महान् उदयो यस्याः सा तथा । पुनः किं० ? 'दान्तताऽसकलहासमाना' न स्तः सकलौसम्पूर्णौ हासमानौ-स्मितस्मयौ यस्याः साऽसकलहासमाना, दान्ततया स्वसमानाधिकरणेन च तेष्वहेतुभूतेन असकलहासमाना दान्तताऽसकलहासमाना । पुनः किं० ? 'अभया' नास्ति भयं यस्याः सकाशात् सा ॥२॥ क्रियादऽरमऽनन्तरागततया चितं वैभवं, __ मतं समुदितं सदा शमवताऽभवेनोदितम् । क्रियादरमऽनन्तरागततयाचितं वैभवं, . मतं समुदितं सदाशमऽवता भवेऽनोदितम् ॥३॥ क्रियादिति ॥ 'वैभव' विभुसम्बन्धि आहेतमित्यर्थः 'मतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy