SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विशतिका। . प्रभावितरतादरं सुरभियाततारोहिणी, हिताऽऽशु गुरुचापराजितकरा शमाऽऽरोचिता॥४॥ ॥ इति श्रीविमलजिनस्तुतिः ॥ १३ ॥ प्रमेति ॥ रोहिणी 'शं' सुखम् 'अरम्' अत्यर्थम् ‘आशु' शीघ्र 'वितरताद्' यच्छतु । किम्भूतम् ? ईहितैः-वाञ्छितैः कृत्वा अशुक्-शोकरहितम् , कामितपूर्त्या गलिततदप्राप्तिशोकमित्यर्थः, 'च' पुनः 'उरु' विस्तीर्णम् । पुनः किं. ? प्रभावोऽस्यास्तीति प्रभावी, अतिशयितः प्रभावी प्रभावितरः, तस्य भावस्तत्ता तया आदरो यत्र तत् तथा । रोहिणी किं० ? 'प्रभा' प्रकृष्टा भा-कान्तिर्यस्याः सा तथा। पुनः कि० ? सुरेभ्यो भीः सुरभीस्तया ' अतता' अविस्तीर्णा । पुनः किं. १ परैः अजितः पराजितः, न पराजितोऽपराजितः तादृक् कर:-दण्डः पाणिः कान्तिर्वा यस्य सदृशो सोऽर्थास्ति न(?)प्रियस्तत्र आशा-अभिनिवेशो यस्य ताहम् यो मार:कन्दर्पः तेन उचिता-अनुरूपा । पुनः किं० ? सुरभि-गां याताप्राप्ता, तारोहिणी-स्फारविचारिणी, * सुरमियाता चासौ तारोहिणी चेति कर्मधारयः * । पुनः किं० १ 'हिता' हितकारिणी । पुनः किं० १ गुरुणा-महता चापेन-काण्डेन राजितः-शोभितः करः-हस्तो यस्याः सा तथा । पुनः किं. १ आ-समन्ताद् रोचिता-श्रद्धाविषयीकृता, आराधकैरिति शेषः ॥ ४ ॥ ॥ इति श्रीविमलजिनस्तुतिविवरणम् ॥ १३ ॥ कलितमोदमऽनन्तरसाश्रये, शिषपदे स्थितमस्तभवापदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy