________________
२६
यशोविजयोपाध्यायविरचिता
[ चन्द्रप्रभजिन
णाम् 'अनीकचक्रं' सेनासमूहं 'निहत्य' हत्वा .........दीनत्वात् 'महामानसीमाम्' अवलेपनपराकाष्टां 'वहति' बिभर्त्ति, सीमाशब्द आकारान्तोऽप्यस्ति । 'निहत्य' इत्यनेन फलोक्तिः, फलप्राप्तिपूर्वन्नाहं . वैफल्यं निरस्तम् । या किम्भूता ? 'अकलितापा' रणानुशयरहितत्वात् *संग्रामोपतापरहिता कलियुगकृततापरहिता वा ॥ ॥ इति श्रीसुपार्श्वजिनस्तुति विवरणम् ॥ ७ ॥
... IN...
तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते लेखलेखानन्तव्याऽपापमदमहते ! सन् ! नमोऽहासमाय ! | श्रेयःश्रेण भृशममतां तन्वते ध्वस्तकामा
नन्तव्यापाsपमद ! महते सन्नमोहाऽसमाय ॥ १ ॥ तुभ्यमिति ॥ हे 'सन् !' उत्तम !, हे 'लेखलेखानन्तव्य !" देवश्रेणीप्रणमनीय !, हे 'अदमहते !' दमस्य - इन्द्रियजयस्य हति:अपकर्षो दमहतिः, नास्ति सा यस्य तस्याऽऽमन्त्रणम्, हे 'अहासमाय !' हासः - हास्यमोहजनित उत्फुल्लगल्ला दिविकारव्यङ्ग्यः परिणामो माया च-वञ्चना हासमाये न स्तः यस्य तस्याऽऽमन्त्रणम्, हे 'ध्वस्तकामानन्तव्याप !' ध्वस्तः - निरस्तः कामस्य - कन्दर्पस्य अनन्त:अपर्यवसितो व्यापः - व्यासक्तता येन तस्यामन्त्रणम्, हे 'अपमद !" अंपगतो मदः - जात्याद्यवलेपो यस्मात् तस्यामन्त्रणम्, हे 'सन्न - मोह !' सन्नः - निस्तीर्णो मोह : - गोबलीवर्दन्यायात् हास्यादिभिन्नमोहनीयप्रकृतिजनितपरिणामसमूहो अज्ञानं वा यस्य तस्यामणम्, हे चन्द्रप्रभ ! तुभ्यं नमः, 'अस्तु' इति शेषः । तुभ्यं किं कुर्वते ? 'भवभयात् संसारसाध्वसाद् 'अपापं पापरहितं पुरुषं रक्षते,
Jain Education International
---
For Private & Personal Use Only
www.jainelibrary.org