________________
स्तुतिः । ]
ऐन्द्रस्तुतिचतुर्विंशतिका ।
नच 'तस्य किं रक्षणे पौरुषम् ? स्वत एव तेन संसारत्यागात्' इति शङ्कनीयम् त्यक्तसंसाराणामपि परिणामानपकर्षस्य हुदयस्थितभगवन्माहात्म्या धीनत्वाद् इत्थमेवास्य क्षेमकारित्वं युक्तमित्यवसेयम् । पुनः किं० ? 'भृशम्' अत्यर्थम् 'असुमत ' प्राणिनां 'श्रेयःश्रेणीं' कल्याणमालां 'तन्वते' कुर्वते । पुनः किंभूताय ? 'महते' अनुपकृतोपकारित्वेनोत्तम पुरुषप्रकृतिशालिने, एवं च सहजदानप्रियत्वादिगुणशालित्वरूपस स्वात् महत्वं भिन्नमिति पौनरुक्त्यं परिहृतं द्रष्टव्यम् । पुनः किम्भूताय ? 'असमाय' निरुपमाय ॥ १ ॥
श्रेयो दत्तां चरणविलुठन्नम्म्रभूपालभूयोमुक्कामालाऽसमदमहिता बोधिदाना महीना । मोहापोहादुदितपरमज्योतिषां कृत्स्नदोषै
मुक्कामाला समदमहिता वोऽधिदानाऽऽमहीना ॥२॥ श्रेय इति ॥ ' बोधिदानां' तीर्थकृतां 'माला' श्रेणिः 'वः' युष्माकं 'श्रेयः' कल्याणं दत्ताम् । किम्भूता १ चरणयोः - पादयोः विलुठन्ती नम्रभूपालानां - नमनशीलनृपतीनां भूयसी - बह्री मुक्तामाला - मुक्ताफलश्रेणिर्यस्याः सा । पुनः किं० ? असमदमानां - निरुपमेन्द्रियजयानां पुंसां हिता-हितकारणी, * अकाराप्रश्लेषात् * समे-सकले असमे - अपपरिच्छेदे ( ? ) वा दमहिते यस्याः सा । पुनः किं ? अहीना नास्ति हीनं- न्यूनं यस्याः सा, क्षीणलाभान्तरायत्वेन कृतकृत्यत्वात् । पुनः किं० १ कृत्स्नदोषैः - घाति कर्मजनितैरन्त * रङ्ग * रागादिभिः सकलैर्जीवगुणप्रतिपन्थिपरिणामैः मुक्ता ।
S
Jain Education International
For Private & Personal Use Only
२७
www.jainelibrary.org