SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ यशोविजयापान्यायविरचि [ पद्मप्रेम पद्मप्रभेशेति ॥ हे 'सद्वि० पर !' सम्-शोभनः श्रद्धयाऽनभिभ'धनीयो विश्वासः - जिनवचनप्रामाण्यप्रतिपत्तिस्वरसो यत्र एतादृशं मानसम् - अन्तःकरणं येषां तेषु दयापरः, यद्यपि भगवतः सर्वेनावपि जीवेषु अविशेषेण कृपालुत्वात् कृपाऽस्त्येव, अन्यथा -माध्यस्थ्यहानिप्रसङ्गात्, तथापि येषु तत्पततं सोच्चालक्षणमभ्युदयदित (?) तत्रैव परमार्थतः सा न त्वन्यत्रापीति 'निश्चयाश्रयणादित्थमुक्तम्, तस्यामन्त्रणम्, हे 'विश्वा० 'विश्वे – अगतिं असमानः - निरुपमानः तस्यामन्त्रणम्, हे 'सदय !' सत् - शोभ“नम् अयम्-इष्टदैवं यस्य तस्यामन्त्रणम्, हे 'अपर !' नास्ति परः - शत्रु'यस्य नास्ति परः- उत्कृष्टो वा यस्मात् तस्यामन्त्रणम्, हे 'पद्मप्रभेश !' 'पद्मप्रभस्वामिन् ! 'यस्य' पुंसः तव 'मते' शासने 'रुचिः' श्रद्धा अस्तीति शेषः, तस्य 'उच्चैः पदं' सुदेवत्वमोक्षादिलक्षणमुत्कृष्टपदं किमु 'न भावि' न भविष्यति ? अपि तु भाव्येवेत्यर्थः । कीदृशस्य तस्य ? "भावितस्य' वासितस्य । पदं किम्भूतम् ? पंचेलिमा-परिपक्का पुण्यसम्पत् - शुभप्रकृतिसमृद्धिः पुण्या - पवित्रा वा सम्पत् - शाश्वतानन्दरूपा यत्र तत् ॥ १ ॥ मूर्त्तिः शमस्य दधती किमु या पटूनि, पुण्यानि काचन सभासु रराज नव्या । सा स्तूयतां भगवतां विततिः स्वभक्त्या, पुण्यानिकाचन ! सभा सुरराजनव्या ॥ २ ॥ १ क्षेत्र "तत्फल मोक्षलक्षणमभ्युदयेत् तत्रैव इतिरूपः पाठो भवेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy