SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स्तुतिः ।] ऐन्द्रस्तुतिचतुर्विंशतिका । " कालीति ॥ कालीनाम्नी देवी 'असरसभावाभावाय' विरसभावापनयनाय 'काली' सुखालीः 'तनुतात्' कुरुतात् न च 'एवं वैरस्यापनयनकामनया सुखस्य काम्यत्वात् तस्य निरुपाघिककामनाविषयत्वभङ्गः' इति शङ्कनीयम्, सुखहेतुविषयोपनिपातस्यैवात्र काम्यत्वात्, मुख्यसुखस्य तथात्वाविरोधात् । काली कीदृशी ? नयनयोः - लोचनयोः सुखदा - सातदायिनी । पुनः किं० ? असुखं दुःखं द्यति - खण्डयति या सा । पुनः किं० ? महिभिः - उत्सविभिर्महिता -पूजिता चासौ नुतास्तुता च महिभिर्महिताः तैः नुतेति वा, महिमहिताभ्यां - महत्त्वप्रथाभ्यां तद्गुणपुरुषाकारः (?) नुता, प्राणिभिरिति गम्यत इति वा । पुनः किं० ? इतः प्राप्तोऽदितः - अखण्डितः अमानः- अपरिमितो यो मान:- अहङ्कारः पूजा वा तत्र या रुचि:- अभिलाषः तया कृत्व 'रुच्या' मनोज्ञा, अथवा इता - प्राप्ता अदिता - अखण्डिता अमानाअपरिमिता या मा-लक्ष्मीर्यया सा पुनः किं० ? 'रुच्या' कान्त्या 'न अरुच्या' नाऽमनोज्ञेति व्याख्येयम् ॥ ४ ॥ ॥ इति श्रीसुमतिजिनस्तुतिविवरणम् ॥ ५ ॥ पद्मप्रभेश ! तव यस्य रुचिर्मते सद्विश्वासमानसदयापर ! भावि तस्य । नोच्चैः पदं किमु पचेलिम पुण्यसम्पद्, विश्वासमान ! सदयाsपर ! भावितस्य ॥ १ ॥ १ “असरसभावस्य - दौर्जन्यस्य अभावाय - अपनयनाय” इत्यवचूरिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy