SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ स्तुतिः।] ऐन्द्रस्तुतिचतुर्विंशतिका । शमसम्पत्तिः, तत्सम्पत्तौ च प्रवृत्तिः' इत्यन्योन्याश्रयः शङ्करनीयः, विशिष्टशमवतः प्रवृत्त्युत्तरं विशिष्टशमसम्पत्त्या दोषाभावात् । अत एवोक्तम् "न साम्येन विना ध्यानं, न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद्, द्वयमन्योक्तकारणात् ॥” • इति ॥ ३॥ पविमपि दधतीह मानसीन्द्र महितमऽदम्भवतां महाधिकारम् । दलयतु निवहे सुराङ्गनानामऽहितमदं भवतां महाधिकाऽरम् ॥ ४॥ ॥ इति श्रीअजितजिनस्तुतिः॥२॥. . : पविमपीति ॥ 'इह' जगति 'मानसी' 'भवता' युष्माकम् 'अहितमदं' शत्रुस्मयं 'दलयतु' निराकरोतु । किं कुर्वती ? 'इन्द्रैः' शः 'महितं' पूजितं 'पविं' वनम् 'अपि' पुनः 'सुराङ्गनानां' देवाङ्गनानां 'निवहे' समूहे 'महाधिकार' प्रौढाधिपत्यं 'दधती' बिभ्रती। महाधिं कारयतीति 'महाधिकारम्' इति अहितमदविशेषणत्वपक्षे 'पवि' वजं शत्रुहननसावधानतया 'अपिदधती' अनाच्छादयन्ती इति व्याख्येयम् । भवतां कथम्भूतानाम् ? 'अदम्भवताम्' अकपटवताम् । मानसी कीदृशी ? 'अरम्' अत्यर्थ महै:-उत्सवैः अधिका ॥ ४ ॥ ॥ इति श्रीअजितजिनस्तुतिविवरणम् ॥ २ ॥ १ एतदभिधाना शासनाधिष्ठात्री देवता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy