________________
A
..
.
८
यशोविजयोपाध्यायविरचिता
अजित
' इति तथाप्रसिद्धान् आतङ्कान् 'लभन्ते' प्राप्नुवन्ति ॥ २ ॥
नयगहनमऽतिस्फुटानुयोग, - जिनमतमुद्यतमानसा ! धुतारम् । जननभयजिहासया निरस्ता
ऽऽजि नमत मुद्यतमानसाधुतारम् ॥३॥ नयगहनमिति ॥ भोः 'उद्यतमानसाः ! निरन्तरम् उद्यतंचरणकरणोपादानप्रणिधानप्रवणं मानसम्-अन्तःकरणं येषां ते तथा यूयं 'जननभयजि[हासया' संसारभयप्रहाणेच्छया 'जिनमतं' जिनागमं ] 'नमत' नमस्कुरुत, इत्थमेव विध्याराधनं कृतं भवति,....................परमार्थतो भवत्यागार्थनिजेरार्थमेव श्रुताध्ययनोपदेशात् । तथा चाऽऽगमः-"चउबिहा खलु सुअ [अज्झावणा] पण्णत्ता, तं जहा-सुअंमे भविस्सइत्ति अज्झाइयवं भवति १, एगग्गचित्तो भविस्सामि त्ति अज्झाइ. यवं भवतिर, अप्पाणं ठावइस्सामि त्ति अज्झाइयवं भवति ३, ठिओ परं ठावइस्सामि त्ति अज्झाइयवं भवति ४।" इति । कीदृशम् ? नयैः-नैगमादिमिः गहनं-गम्भीरम् । पुनः किं. ? सूत्रार्थनियुक्त्यर्थनिरवशेषार्थप्रतिपादनक्रमाद् अतिस्फुटा:-अतिप्रकटा अनुयोगा यस्य तत् । पुनः किं० ? धुत:-कम्पित आर:अरिसमूहो येन तत् । पुनः किं० ? निरस्त:-निराकृत आजि:संप्रामो येन यत्र वा तत् । पुनः किं० १ मुदा-शमसुखसाम्राज्यलक्षणहर्षेण यतमाना:-ध्यानादौ प्रवर्त्तमाना ये साधवः-श्रमणाः वान् तारयति-भीमभवजलधिपारं प्रापयतीति तत्।न चात्र 'प्रवृत्त्युत्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org