________________
यशोविजयोपाध्यायविरचिता
[ अजित
क्षयोपशमाधायकत्वेन तथात्वाद्, द्रव्यादिकं प्रतीत्य क्षयीपशमप्रसिद्धेः, तदुक्तम्उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवाइँ पंच कप्पs"
इति किमतिविस्तरेण ? । किम्भूता ? विस्फुरत्-विभ्राजमानं सौभाग्यं - सुभगत्वं यस्याः सा । पुनः किं० ? 'श्रयतां भजतां 'हिता' हितकारिणी ॥ ४ ॥
॥ इति श्रीप्रथमजिनस्तुतिविवरणम् ॥ १ ॥
मुनिततिरपि यं न रुद्धमोहा, शमजितमारमदं भवन्दिताऽऽपत् । भज तमिह जयन्तमाऽऽतुमीशं,
शमऽजितमाऽऽरमऽदम्भवन् । दितापत् ॥ १ ॥
मुनिततिरिति ॥ हे 'अदम्भवन् !' अकपटवन् ! त्वं दिया-खण्डिता आपद् येन तादृशाऽप्युरस्खलेनाऽप्युक्तं लङ्कितमित्यर्थः (?), – 'शं' सुखम् 'आप्तुं' लब्धुम् 'आरम्' अन्तरङ्गारिसमूहं 'जयन्तम्' अभिभवन्तम् 'इ' जगति तम् अजितं भज । तं कमू १ यं 'मुनिततिरपि' योगिपतिरपि 'न आपत्' न साक्षाचक्रे, तथा चावशितशान्ताद्गोचरत्वस्य (?) वार्त्ताऽपि दूर इति भावः । कीदृशी मुनिततिः १ रुद्ध:-वशीकृतो मोहों यया सा । पुनः कीदृशी ? भेन- नक्षत्राख्येन ज्योतिष्कदेवभेदेन वन्दिता - स्तुता अभिवादिता वा । यं कीदृशम् ? शमेन जितौ मारमदौ-कन्दर्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org