________________
स्तुतिः।] ऐन्द्रस्तुतिचतुर्विशतिका । (पूर्णम्' अन्यूनम् । यद्यपि सङ्गतिकर्म धर्म एव, तथापि पदानां परम्परया सङ्गतिमत्त्वं नानुपपन्नम् । पुनः किं० ? गमा:-सदृशपाठाः भङ्गाश्च-विकल्पविशेषाः मानानि च-प्रत्यक्षादिप्रमाणानि तैः सहितम् । [पुनः किं० ? 'विश्रुतं' प्रथितम् । ] मिथ्यात्वं कीदृशम् ? 'अप्रभावि' प्रभावरहितम् ॥ ३ ॥ या जाड्यं हरते स्मृताऽपि भगवत्यऽम्भोरुहे विस्फुर.
सौभाग्या श्रयतां हिता निदधती पुण्यप्रभाविक्रमौ । वाग्देवी वितनोतु वो जिनमतं प्रोल्लासयन्ती सदाऽसौभाग्याश्रयतां हितानि दधती पुण्यप्रभावि क्रमौ॥४॥
॥ इति श्रीऋषभजिनस्तुतिः॥१॥ येति ॥ असो वाग्देवी 'वः' युष्माकं 'सदा' नित्यं हितानि वितनोतु । किं कुर्वती ? 'जिनमतम्' आहेतशासनं 'प्रोल्लासयन्ती' प्रभावयन्ती। पुनः किं कुर्वती ? भाग्यस्य-शुभादृष्टस्य आश्रयतां-स्थानतां दधती' बिभ्रती। जिनमतं कीदृशम् ? पुण्यं प्रकर्षेण भावयति तत् पुण्यप्रभावि । वाग्देवी पुनः किं कुर्वती ? 'अम्भोरुहे' कमले 'क्रमौ' चरणौ निदधती' स्थापयन्ती। कीदृशौ क्रमौ ? * पुण्यौ-पवित्री प्रभाविक्रमो-कान्तिपराक्रमौ ययोः याभ्यां वा, प्रकृष्टौ भाविक्रमौ ययोस्तो प्रभाविक्रमौ, ततः * पुण्यौ च तो प्रभाविक्रमौ चेति वा समासः । असौ का ? या भगवती 'स्मृताऽपि' चिन्तिताऽपि किं पुनर्विशिष्य आराद्धेत्यपिशब्दार्थः, 'जाड्यम्' अज्ञानं हते, न च 'देवताप्रसादादज्ञानोच्छेदासिद्धिः, तस्य कर्मविशेषविनाशाधीनत्वात्' इति वाच्यम्, देवताप्रसादस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org